Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
-
कूपदृष्टान्तविशदीकरण र अक्षरार्थस्तु भावार्थानुसारेण प्रायः सुगम एव। नवरं परिणामप्रामाण्यात् = 'कर्मबन्धादौ अध्यवसाय एव प्रमाणं इति' भद्रबाहुस्वामिवचनसिद्धादध्यवसायप्रामाण्यादिति।
व्यवहारतः संयमविराधकत्वात् = सुसाधुः कारणं विनाऽशुद्धं नैव गृह्णाति, यदि च तेन गृहीतं, तर्हि अनाभोगत एव, ततश्च तस्य व्यवहारत एव संयमविराधकत्वं, न तु निश्चयत इति। अव्युत्पन्नत्वेन च = अतिपरिणतत्वेन। उत्सर्गकरुचिरपरिणतरूपोऽव्युत्पन्नः, अपवादैकरुचिरतिपरिणतरूपोऽव्युत्पन्नः, स्याद्वादरुचिस्तु व्युत्पन्न इति। | यशो.: अयमतिदेशोऽव्युत्पन्नीयपूजायां दृष्टव्य इति ॥४॥
यन्द्र.: एवमन्येषां मतं प्रदर्श्य जिनपूजायां तद् योजयन्नाह - अयमतिदेशोऽव्युत्पन्नीयपूजायां दृष्टव्य इति। यथा निष्कारणमशुद्धं ददानस्य भक्तिवशादविवेकवशाच्च क्रमशो बहुतरा निर्जरा अल्पपापं च, तथैव प्रमादादिनाऽविधियुतां पूजां कुर्वाणस्य भक्तिवशात् बहुतरा निर्जरा, प्रमादादिजन्याविधिवशाच्चाल्पपापबन्ध इत्येवं योजनं कर्त्तव्यमिति भावः। इयं च पूजा अव्युत्पन्नेनैव क्रियत इति कृत्वाऽव्युत्पन्नीया जिनपूजोच्यते।
समाप्ता चतुर्थी गाथा।
यशो.: तदिदं अखिलं मनसिकृत्याह -
सम्भावणे विसद्दो दिळंतोऽनणुगुणो पयंसेइ। सामण्णाणुमिईए सूरी पुण अंसओ बाहं ॥५॥
यन्द्र.: अधुना पञ्चमगाथायाः प्रस्तावनामाह - तद् = अनन्तरोक्तं प्रसिद्धं इदं = प्रत्यासन्नं एव अखिलं = सर्वं मनसिकृत्य = उपयोगविषयीकृत्य आह - पञ्चमगाथायाः संस्कृतछाया अन्वयश्च। सम्भावनेऽपिशब्दोऽस्ति दृष्टान्तोऽननुगुणः।
सूरिः पुनः सामान्यानुमितौ अंशतो बाधं प्रदर्शयति।।।५।। | यशो.: सदोषमपि स्नाना(दी)त्यत्रापिशब्दः सम्भावने, तेन न सर्वं सदोषमेव, यतनादिसत्त्वे भावोत्कर्षे दोषाभावात् । दृष्टान्तोऽशुद्धदानरूपः शुद्धजिनपूजायामननुगुणोऽननुकूलः। सूरिः = अभयदेवसूरिः | पुनः, सामान्यानुमितौ = स्नानत्वपूजात्वाद्यवच्छेदेन निर्दोषत्वानुमितौ “न वैतदाऽऽगमानुपाती" त्यादिना अंशतो बाधं प्रदर्शयति। विधिविरहितायाः पूजायाः कर्दमोपलेपादितुल्याल्पदोषदुष्टत्वात् । यन्द्र.: सदोषमपि स्नानादि इत्यादि।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106