Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 49
________________ - कूपदृष्टान्तविशदीकरणं - यन्द्र.: एवं स्वीकृत्याऽपि विधेरावश्यकतां प्रदर्शयति - तथापि अयतनाजनिता हिंसा = तात्त्विकी हिंसा अज्ञानतो भवति तस्या दुर्गतनार्यापि । ननु कथं तस्या विशिष्टपरिणामसत्त्वेऽपि तात्त्विकी हिंसा? इति जिज्ञासायामाह- प्रमादानाभोगाभ्यां प्राणभूतानि हिनस्ति इति वचनात्। तस्याश्च अनाभोग आसीदेवेति तस्यास्तात्त्विकी हिंसा मन्तव्यैवेति। यशो.: तथा च तत्र आचार्योक्तः कूपदृष्टान्त उपतिष्ठत एव, यन्द्र.: ननु यदि तस्यास्तात्त्विकी हिंसा, तर्हि तस्या अल्पपापबन्धोऽपि मन्तव्य इति चेत् सत्यम्। एतदेवाह तथा च तत्र = दुर्गतनारीदृष्टान्ते आचार्योक्तः = मूलग्रन्थे हरिभद्रसूरिभिरुक्तः, वृत्तौ तु अभयदेवसूरिभिः सविस्तरं निरूपितः कूपदृष्टान्तः = प्रथमं सदोषः, पश्चादधिकतरलाभवानित्येवंरूपपदार्थप्रसाधक: उपतिष्ठत एव। ____ अयं भावः- यदि सा नारी विधिज्ञानवती स्यात्, तर्हि सा विधिपालनं कुर्यात्, त_ज्ञानजन्या तात्त्विकी हिंसा तस्या न स्यात्, अल्पोऽपि पापबन्धो न स्यादेव। किन्तु अज्ञानवशात्तया योऽविधिः कृतः, तेन तस्या अल्पपापबन्धः स्यादेव। एतदपि व्यवहारतः प्रोक्तम्। निश्चयतस्त्वयं स्पष्टार्थः, यदुत विधिज्ञानपालनादिवत: परिणामो यादृशो भवेत्, विध्यज्ञानवत: अत एव विध्यपालनवत:परिणामस्तादृशो न भवेत्, किन्तु तस्मात्किञ्चिन्मात्रया हीनो भवेत्। ततश्च परिणामहानिसकाशादेव फलहानिः, परन्तु तत्र विधेरेव प्राधान्यात् परिणामवत् विधिरपि कर्मबन्धादिकं प्रति प्रमाणमिति। यशो.: अव्युत्पत्त्ययतनाजनितस्य दोषस्योत्तरशुभभावदृष्ट्यैव शोधयितुं शक्यत्वात्। यन्द्र.: ननु दुर्गतनारीदृष्टान्ते कूपदृष्टान्तः कथं घटत इति विवेचयतु भवानिति जिज्ञासायामाह - अव्युत्पत्त्ययतनाजनितस्य = अव्युत्पत्तिर्नाम अज्ञानं, तया या अयतना, साऽव्युत्पत्त्ययतना उच्यते। तया जनितस्य दोषस्य = अल्पपापबन्धरूपस्य उत्तरशुभभावदृष्ट्यैव = उत्तरकालीना या शुभभावरूपा दृष्टि:, तयैव, न तु तां विना शोधयितुं = निराकर्तुं शक्यत्वात्। ____ तथा च दुर्गतनारी यदि स्वर्गं परम्परया च मोक्ष प्राप्ता, तर्हि अवश्यं मन्तव्यं यदुत प्रथमं तस्याः अज्ञानप्रयोज्यायतनायाः सकाशादल्पप पबन्धः, पश्चात् शुभभावदृष्टि:, पश्चाच्च अल्पपापादिविनाशः.... इत्येवंक्रमेण मुक्तिः । यत्र चैवं भवति, तत्र कूपदृष्टान्त उपस्थितो भवत्येव, यतस्तत्रापि प्रथमं हानिः, पश्चाल्लाभ इति। यशो.: भक्त्यनुष्ठानमपि अविधिदोषं निरनुबन्धीकृत्य परम्परया मुक्तिजनकमिति केचित् बुवते।' यन्द्र.: अत्र प्रसङ्गतः प्रीतिभक्तिवचनासङ्गानुष्ठानानां फले मतद्वयं प्रतिपादयन्नाह - तत्र प्रथमं केषाञ्चिन्मतं दर्शयति। भक्त्यनुष्ठानमपि इत्यादि।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106