Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
यशो. : भवति चांशतो बाघप्रतिसन्धानेऽवच्छेदकावच्छेदेनाऽनुमितिप्रतिबन्धः ।
=
चन्द्र. : ननु एवं अंशतो बाधदोषप्रतिपादनेन किं कारणेन 'सर्वाणि स्नानादीनि निर्दोषाणि' इत्यनुमितेः प्रतिबन्धो भवति ? इति शङ्कायामाह भवति चांशतो बाधप्रतिसन्धाने न्यायपरिभाषायां पक्षतावच्छेदकसामानाधिकरण्येन बाधज्ञाने सति अवच्छेदकावच्छेदेन = न्यायपरिभाषायां पक्षतावच्छेदकावच्छेदेन अनुमितिप्रतिबन्ध इति ।
अयं भावः
-
-
'जीवा मोक्षगामिन: ' इत्यनुमाने यदि सर्वान् जीवानााश्रित्य मोक्षगामित्वं साध्यते, तर्ह्यत्र सर्वे जीवाः पक्ष:, तेषु पक्षता, तदवच्छेदको धर्मो जीवत्वम्, तदवच्छेदेनानुमितिः अत्र क्रियते ।
अत्र च शास्त्रज्ञाता चिन्तयति 'ननु जीवा मोक्षगामिनो भवन्तीति सत्यम्, किन्तु सर्वे जीवा न, यतो भव्या एव मोक्षगामिनः, अभव्यास्तु नैव' इति । अत्राभव्याः पक्षीभूतानां जीवानामंशस्वरूपा:, तेषु च साध्याभावः स्पष्ट एव ज्ञायते । ततश्चात्राशंतो बाधप्रतिसन्धानं (साध्याभावज्ञानं ) सञ्जातम् । तेन च तस्य शास्त्रज्ञातुः ‘सर्वे जीवा मोक्षगामिन:' इत्यनुमितिर्नैव भवति ।
1
अत्रांशतो बाधप्रतिसन्धानमेव पक्षतावच्छेदकसामानाधिकरण्येन बाधज्ञानमिति ।
यशो.: सामानाधिकरण्येनानुमितौ तु नायमपि दोष इति विभावनीयं सुधीभिः ॥ ५ ॥
थन्द्रः अयं भावः - श्रेणिककृष्णरावणप्रभृतीन् जीवान् लक्ष्यीकृत्य 'जीवा मोक्षगामिन:' इत्येवमनुमानं यदा क्रियते, तदा साऽनुमितिः पक्षतावच्छेदकसामानाधिकरण्येनानुमितिरुच्यते । अत्र च यदि कश्चिच्छास्त्रज्ञाता 'संगमपालकादयो जीवा न मोक्षगामिनः' इत्येवं पक्षतावच्छेदकसामानाधिकरण्येन बाधप्रतिसन्धानवान् भवति, तदापि तस्य श्रेणिकादिजीवान् पक्षीकृत्य कृता 'जीवा मोक्षगामिनः' इत्येवंरूपा पक्षतावच्छेदकसामानाधिकरण्येनानुमितिर्भवत्येवेति।
अत एवाह सामानाधिकरण्येनानुमितौ तु नायमपि = न अनुमितिप्रतिबन्धकोऽपि दोष इति । → सूरि:' न चैतदागमानुपाति' इति वचनेन सर्वाणि स्नानादीनि किञ्चित्सदोषाण्येव मन्यते ← इत्येवंरूपः पूर्वपक्षोक्तो दोषस्तु तावन्नास्त्येव, किन्तु यदि विधिशुद्धानि स्नानादीनि पक्षीकृत्य यद्यनुमितिः क्रियते, तदा तु तादृशानुमितिप्रतिबन्धरूपोऽपि दोषो न भवेदेवेति अपि शब्दार्थः ।
अयं भावः - अभयदेवसूरिरिममेवाशयं बिभर्ति यदुत
विधिशुद्धानि स्नानादीनि निर्दोषाण्येव,
अविधियुतानि किञ्चित्सदोषाण्येव ← इति ।
एवं च यदि सर्वाणि स्नानादीनि पक्षीकृत्य निर्दोषत्वस्यानुमितिः क्रियते, तर्हि स निषेधं कुर्यादेव । किन्तु यदि विधिशुद्धानि स्नानादीनि पक्षीकृत्य निर्दोषत्वस्यानुमितिः क्रियते, तर्हि स न निषेधं कुर्यात्, अविधियुक्ते स्नानादौ किञ्चित्सदोषत्वज्ञाने सत्यपि तादृशज्ञानस्य विधियुते स्नानादौ
४६

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106