Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
- कूपदृष्टान्तविशदीकरणं
- एवं तावत्स्थानाङ्गसूत्रव्याख्यानभावार्थो निगदितः, अधुना वृत्त्यनुसारेणार्थो निगद्यते। एतेन इति पदस्य इति दृष्टव्यम् इत्यनेन सहान्वयः कर्त्तव्यः ।
कहनं इत्येतस्मादारभ्य जघन्यायुःफलम् इत्येतदन्तं स्थानाङ्गसूत्रवृत्तिगतं निरूपणम्। इति व्याख्याय इति तु महोपाध्यायानां वचनम्। तथा अन्ये तु इत्यस्मात् आरभ्य तथात्वप्रसङगात् इत्येतदन्तं निरूपणं स्थानाङ्गवृत्तिसम्बन्धि।
स्थानाङ्गवृत्तौ अभयदेवसूरिणा द्वाभ्यां प्रकाराभ्यां व्याख्यानं कृतम्। ततश्च महोपाध्याया एतदेव स्पष्टयति यदुत अभयदेवसूरिकृतवृत्तौ.... 'जघन्यायुःफलमिति व्याख्याय अन्ये तु .... तथात्वप्रसङ्गात् इति व्याख्यानेऽपि'.... इत्यादि।
अक्षरार्थलेशस्त्वयम् -
अत्र = स्थानाङ्गसूत्रे एतत्त्रयं = प्राणातिपातो मृषावादोऽशुद्धगोचरीदानं चेति। अन्ये तु इत्थं व्याख्यानं कुर्वन्ति इति शेषः। ___ यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण प्राणातिपाते स्वभाण्डासत्योत्कर्षणादिना च मृषावादे वर्तते, साधुगुणपक्षपातितया च तत्पूजार्थं आधाकर्मादिकरणेन प्राणातिपाते मृषावादे सावद्यदाने च वर्तत इति भावः।
अत्र जिनपूजार्थं जिनगृहं जिनप्रतिमा च कारापणीया, तत्र च पृथिव्यादीनामारम्भोऽवश्यंभावी। तथा जिनपूजार्थं प्रभूतं धनमावश्यकमिति मत्त्वा स स्वभाण्डस्य सुवर्णस्थालादिरूपस्य असत्येन प्रकारेण उत्कर्षणं करोति, अर्थात् तस्य मूल्यं वर्धयति। यदि वा 'मया दश सुवर्णमयानि स्थालानि ग्राह्याणि' इति प्रतिज्ञायां प्राग्गृहीतायां सत्यां जिनपूजार्थं धनवृद्धिकरणार्थं स सुवर्णस्थालानि गालयित्वा पुन: दशस्थालेभ्यः पञ्चैव स्थालानि कारयति, पञ्च च नूतनानि कारयतीत्येवमपि धनवृद्धिं करोति, तद्धनं च जिनपूजायां व्यापारयति, परन्तु तदर्थमुपर्युक्तप्रकारेण मृषावादमाचरतीति। एवं साधुगुणपक्षपातितया तल्लाभार्थं आधाकर्मादिकरणे प्राणातिपाते वर्तते, साधुना पृष्टे सति नैतद्भवदर्थं कृतं, किन्तु मदर्थमेव' इत्यादिना मृषावादे वर्तते, ततश्च अनाभोगवते तस्मै सुसाधवेऽशुद्धदानं ददातीत्येवं अल्पायुष्कस्य त्रिषु कारणेषु वर्तत इति। ___ इत्थं च यो वर्तते, तस्य वधादिविरतिनिरवहादाननिमित्तायुष्कापेक्षया = प्राणातिपातविरतिर्मुषावादविरतिनिरवद्यदानं वा निमित्तं यस्य, तादृशं यत् आयुष्कं, तदपेक्षया इयं = प्रथमसूत्रे प्रतिपादिता अल्पायुष्कता अवसेया, न तु २५६ आवलिकाप्रमाणरूपेति भावार्थः।
ननु सूत्रे तु भवदुक्तविशेषणसमन्वितं प्राणातिपातादि नैवोक्तं, ततश्च तादृशं प्राणातिपातादि कथं ग्राह्यमित्याशङ्कायामाह- अविशेषणत्वेऽपि = 'जिनसाधुगुणपक्षपातिना जिनपूजाद्यर्थं कृतं प्राणातिपातादिकम्' इत्येवं विशेषणरहितत्वेऽपि सूत्रस्य = 'कहनं भंते' इत्यादिसूत्रस्य प्राणातिपातादिविशेषस्य =

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106