Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 36
________________ - कूपदृष्टान्तविशदीकरणं । अनन्तरोक्तस्वरूपस्य, न तु यस्य कस्यापि प्राणातिपातादेः अवश्यं वाच्यत्वात् इयं अनन्तरोक्ता विशेषणसहितप्राणातिपातादेः सापेक्षाऽल्पायुष्कताऽवसेया इत्यन्वयः। एवं सूत्रस्य अविशेषणत्वेऽपि इत्येवं अन्वयो बोध्यः। ननु विशेषणरहितस्य सामान्यप्राणातिपातादेः ग्रहणे को दोषः? इति शङ्कायामाह- अन्यथा = सामान्यप्राणातिपातादेः सकाशात् निरपेक्षाऽल्पायुष्कता यदि गृह्यते, तर्हि इतः = प्रथमात्सूत्रात् तृतीयसूत्रे प्राणातिपातादितः = प्रतिपादितात्त्रिकात् अशुभदीर्घायुष्कतावचनानुपपत्तेः = नरकायुष्कतावचनाघटमानतापत्तेः । यदि हि प्राणातिपातादिकं सविशेषणं न गृह्यते, तर्हि तृतीयसूत्रोक्ताशुभदीर्घायुष्कतावचनानुपपत्तिः स्यात्। तस्मात् प्राणातिपातादिकं सविशेषणं अवश्यं वाच्यम्, ततश्च प्रथमसूत्रेऽनन्तरोक्ता सापेक्षैवाऽल्पायुष्कताऽवसेयेति अन्वयभावार्थः। ननु अशुभदीर्घायुष्कतावचनं किमर्थं न घटते? इति शङ्कायामाह - न हि सामान्यहेतोः = प्रथमसूत्रेऽपि प्राणातिपातादि निर्विशेषणं, तृतीयेऽपि तथैव, ततश्च उभयत्र सामान्यं प्राणातिपातादि, तादृशात्कारणात् कार्यवैषम्यं = 'प्रथमसूत्रोक्तात् प्राणातिपातात् २५६ आवलिकाप्रमाणमल्पायुष्कं, तृतीयसूत्रोक्तात्प्राणातिपातात् अशुभदीर्घायुष्कं (नरकायुरिति भावः)' इत्येवं कार्यवैपरीत्यं न युज्यते। यदि च प्रथमसूत्रे जिनपूजाद्यर्थं प्राणातिपातादि गृह्यते, अल्पायुष्कं च सापेक्षमेव शुभं गृह्यते, तृतीयसूत्रे तु निष्ठुरतादिना क्रियमाणं प्राणातिपातादि गृह्यते, दीर्घायुष्कं च फलं गृह्यते, तर्हि कारणयोर्भेदात् कार्यभेद इति कृत्वा न कोऽपि दोषः स्यादिति। ननु एकस्मिन्नपि वस्तुनि विषमकार्यजननशक्तिर्दृश्यते। तथाहि -यो हि दण्डो घटमुत्पादयति, स एव दण्डो घटनाशकोऽपि भवति। एवं च एक एव दण्डो घटोत्पादविनाशरूपे विषमे कार्ये कर्तुं समर्थः, एवमेव समानमपि प्राणातिपाताद्यल्पायुष्कं दीर्घायुष्कं चेत्येवं विषमे द्वे कार्ये करोतु नाम, को दोषः? इति शङ्कायां युक्त्यन्तरमाह - अपि च इत्यादि। अशुद्धदानं अल्पतरपापबहुतरनिर्जरायाः कारणम्'इत्येवं अग्रे भगवत्यां सुधर्मस्वामी अभिधास्यति, ततश्च नैव इयं = प्रथमसूत्रोक्ता क्षुल्लकभवग्रहणरूपा = २५६ आवलिकाप्रमाणरूपा अल्पायुष्कता। ननु अशुद्धदानं अल्पतरपापबहुतरनिर्जरायाः कारणं भवतु, क्षुल्लकभवग्रहणस्यापि कारणं भवतु को नाम दोष इति शङ्कायामाह - न हि स्वल्पपापेत्यादि । 'ननु किमर्थ न सम्भाव्यते?' इत्यत आह जिनपूजाद्यनुष्ठानस्यापि = आस्तामशुद्धदानस्य तथात्वप्रसङगात् = क्षुल्लकभवग्रहणनिमित्तत्वप्रसङ्गात्। अयं भावः – यदि हि अल्पपापबहुनिर्जराकारणमपि अशुद्धदानं क्षुल्लकभवग्रहणकारणं भवेत्, तर्हि अल्पपापबहुनिर्जराकारणं जिनपूजादिकमपि क्षुल्लकभवग्रहणकारणं भवेत्, न्यायस्य समानत्वात्। न चैतदिष्टं, तस्मात् यथा जिनपूजादिकं अल्पपापबहुनिर्जराकारणं सत् सापेक्षस्यैव शुभाल्पायुष्कस्य कारणं, तथैवाशुद्धदानमपीत्येवमवश्यं मन्तव्यमिति।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106