Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
कूपदृष्टान्तविशदीकरणं
10
‘न तु शुद्धायाः' इत्येवकारार्थः, औपम्यौचित्यात् = स्थानाङ्गवृत्तौ यत् 'जिनपूजाद्यनुष्ठानस्यापि तथात्वप्रसङ्गात्' इत्यादिना प्रतिपादितं, तदौचित्यात् ।
अयं भावः
'दानादिचतुष्कं जिनायतनैः पृथ्वीमण्डनरूपा जिनपूजा च अच्युतफलवती' इति महानिशीथे प्रतिपादितमस्ति । अत्र दानादिचतुष्कं शुद्धमशुद्धं वेति न विशेषतः प्रतिपादितम् । अपि तु सामान्यत एव दानादिचतुष्कं प्रतिपादितम् । एवं जिनपूजा शुद्धाशुद्धा वेति न विशेषतो गृहीतं, किन्तु सामान्यत एव जिनपूजा गृहीता ।
इत्थं च महानिशीथे सामान्यतो दानादिचतुष्कस्य सामान्यतश्च जिनपूजायाः समानं फलं प्रतिपादितम्। तथा च समानफलदायकत्वेन सामान्यतो दानादिचतुष्कं सामान्यतो जिनपूजा चोभयमपि परस्परं समानमेव सञ्जातम्।
स्थानाङ्गे चाशुद्धदानस्याल्पायुष्कतारूपं फलं प्रतिपादितम्, न तु सामान्यतो दानस्य, ततश्च स्थानाङ्गे विशेषस्वरूपं दानं गृहीतम्, तेनैव सह 'जिनपूजाद्यनुष्ठानस्यापि तथात्वप्रसङ्गात्' इत्यादिना जिनपूजाया औपम्यं कृतम् । ततश्च तत्र विशेषस्वरूपेण दानेन सह विशेषस्वरूपस्यैव जिनपूजाद्यनुष्ठानस्यौपम्यमुचितं इति स्पष्टम् । ततश्च यदि अत्र अशुद्धं दानं विशेष:, तर्हि तेन सह अशुद्धजिनपूजादिरूपस्यैव विशेषस्यौपम्यं युज्यत इति ।
यच्च भवता ‘अशुद्धचारित्रस्य शुद्धजिनपूजादिकस्य समानं फलं, ततश्चात्रापि अशुद्धदानस्य शुद्धजिनपूजायाश्च समानं फलं भविष्यति' इत्यादि निगदितम, तन्न युक्तम् । यतस्तत्र सामान्यतश्चारित्रस्य सामान्यतो जिनपूजादिकस्य च समानं फलं कुत्रापि न निगदितम्, किन्तु चारित्रस्य विशिष्टं फलं, जिनपूजादिकस्य हीनं फलं प्रतिपादितमस्तीति अशुद्धचारित्रस्य शुद्ध जिनपूजादिकस्य फलसाम्यं सम्भवेत् ।
प्रकृते तु नैवम् । यस्मादत्र सामान्यतो दानादिचतुष्कस्य सामान्यतो जिनपूजायाश्च समानं फलं प्रतिपादितमेव, ततश्च यदा अशुद्धदानादिरूपस्य विशेषस्य ग्रहणं क्रियते, तदा तेन सह गृह्यमाणा जिनपूजाऽपि विशेषरूपैव ग्रहीतुमुचितेति ।
अत्यन्तमप्रमत्तेन प्रस्तुतः पदार्थो भावार्थश्च भावनीय इति ।
यशो. : किञ्च - “संविग्गभावियाणं लुद्धयदिट्टंतभावियाणं च । मुत्तूण खित्तकालं भावं च कहंति सुद्धुंछं" ।। (बृहत्कल्पभाष्ये गा. १६०७ ) इत्येतत्पर्यालोचनया लुब्धकदृष्टान्तभावितानामागमार्थाऽव्युत्पन्नानामेव अशुद्धदानसम्भवस्तादृशानामेव च जिनपूजासम्भवोऽपि विधिवैकल्यवानेव सम्भवतीति ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106