Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 41
________________ - कूपदृष्टान्तविशदीकरणं एतत्पर्यालोचना = अस्या गाथायाः पर्यालोचना = विचारणा यदा क्रियते, तदा तया एतन्निश्चीयते, यदुत लुब्धकदृष्टान्तभावितानां = अनन्तरोक्तानां आगमार्थाऽव्युत्पन्नानामेव = 'दुल्लहा उ मुहादाइ, मुहाजीवि वि दुल्लहा' इत्यादिना 'पिंडं असोहंतो नत्थि चरित्ती' इत्यादिना चागमेनापरिणतमतिमतामेव, 'न तु उत्सर्गापवादपरिणतिशालिनाम्' इत्येवकारार्थ: अशुद्धदानसम्भवः = तेऽतिपरिणता एवाशुद्धदानं ददातीति, तादृशानामेव च = 'अशुद्धदानं श्रेयः' इत्यादिमुग्धतासम्पन्नानामेव च, अर्थात् शुद्धतात्मकविधिं प्रति प्रमादोपेक्षादिशालिनामेव च, न तु शुद्धदानं प्रति भक्तिश्रद्धादिसमन्वितानां इत्येवकारार्थः, जिनपूजासम्भवोऽपि आस्तां तावत् अशनादिदानं, किन्तु जिनपूजासम्भवोऽपीति अपि' शब्दार्थः विधिवैकल्यवानेव सम्भवतीति। ___ यो हि विधिं प्रति उपेक्षादिमान् भवति, स विधिमाहात्म्यज्ञानाद्यभावात् अशनादिदाने विधिवैकल्यवत् जिनपूजायामपि विधिवैकल्यं समाचरेदेवेति स्थानाङ्गसूत्रे योऽशुद्धदानदाता प्रदर्शितः, तस्य पूजाऽपि विधिवैकल्यवती, अत एव च अल्पपापबन्धादिकारणं भवतु नाम, किन्तु विधिशुद्धा तु नैवाल्पस्यापि पापस्य बन्धकारणं स्यादिति।। यशो.: यत्तु-गुणवते पात्रायाऽप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भान्निर्जरा, व्यवहारतो जीवघातेन चारित्रबाधनाच्च पापं कर्म, तत्र स्वहेतुसामर्थ्यापेक्षया बहुतरा (निर्जरा) निर्जरापेक्षया च अल्पतरं पापं भवति, तच्च कारण एव, यत उक्तं - - 'संथरणंमि असुद्धं दुण्ह वि गिह्णत दिंतयाणऽहियं। आउरदिळंतेणं तं चेव हियं असंथरणे।।' (निशीथभाष्य गा. १६५०) त्ति यन्द्र.: वचनान्तरं प्रदर्श्य तद् विधिशुद्धपूजया सह योजयन्नाह - यत्तु इत्यादि। अत्र यत्तु इत्यादेरारभ्य तं चेव हियमसंथरणे इत्येतदन्तं यावत् वचनान्तरं, तद् गीतार्थेत्यादेरारभ्य द्रष्टव्यः इत्येतदन्तं यावत् महोपाध्यायकृतं समाधानमिति। अत्रापि प्रथमं भावार्थः प्रतिपाद्यते, पश्चादक्षरार्थ उच्यते। केचिदित्थं प्रतिपादयन्ति → (यत्केनचिदुच्यते यदुत) सुपात्राय यदाऽशुद्धदानं दीयते, तदा सुपात्रगतस्य चारित्रकायस्य उपष्टम्भो भवतीति कृत्वा निर्जरा भवति। अशुद्धदाने व्यवहारतो या जीवविराधना भवति, तया सुपात्रगतस्य चारित्रस्य बाधो भवतीति कृत्वा दातुः पापं कर्म भवति। ___ अत्र निर्जराऽधिका? पापकर्म वा? इति प्रश्नः। तत्र समाधानं त्विदम् - यदुत निर्जराया हेतुः चारित्रकायपोषणं, तस्य सामर्थ्यं पापकर्मबन्धकारणापेक्षयाऽधिकं इति कृत्वा निर्जराऽधिका भवति। पापकर्मणो हेतुस्तु व्यवहारतो जीवघातेन चारित्रबाधः, तस्य च सामर्थ्य निर्जराकारणापेक्षयाऽल्पमिति कृत्वा पापकर्मबन्धोऽल्पो भवतीति। तत्सत्यमेव, परन्तु यदा साधो: जनपदविरहितदीर्घमार्गो दुष्कालो ग्लानत्वादिकं वा कारणं भवेत्,

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106