Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 27
________________ कूपदृष्टान्तविशदीकरणं यशो. : .: इतरथा = सूरेस्क्ताशयाभावे, पूजायां कायक्थे कथञ्चिद् वचनं कथं नु भवेत् ? न कथञ्चिदित्यर्थः यद्र. : अधुना चतुर्थगाथाया वृत्तिः विव्रीयते। इतरथा = सूरेरुक्ताशयाभावे ' विधिभक्तियुक्ते द्रव्यस्तवे स्वल्पोऽपि पापबन्धो नास्ति, अविधिभक्तियुक् एव चास्ति' इत्येवंरूप आशयो यदि अभयदेवसूरेर्न स्यात्, किन्तु सर्वत्रस्नानपूजादिके आरम्भजन्यः स्वल्पः पापबन्धोऽस्त्येव' इत्येष अभिप्रायः सूरेः स्यात्, तर्हि पूजायां = क्रियमाणायां कायवधे कथञ्चिद् वचनं = 'पूजायां यद्यपि कथञ्चिद् कायवधो भवति' इत्येतादृशं पूजापञ्चाशके प्रतिपादितं यद् कथञ्चित् वचनं, तत् कथं भवेत् ? न कथञ्चिदित्यर्थः । तद्वचनं उक्ताशयाभावे न केनापि प्रकारेण संगतं स्यादिति भावः । 'कस्मिन्नपि द्रव्यस्तवे आरम्भजन्यः पापबन्धो भवत्येव ' इति सूरेरभिप्रायः पूर्वपक्षेण चतुर्थपञ्चाशकवृत्त्यनुसारेण प्रतिपादितः । आरम्भश्च कायवधरूप:, ततश्च यदि सर्वस्मिन्नपि द्रव्यस्तवेऽवश्यं अल्पः पापबन्धः, ततः सर्वस्मिन्नपि द्रव्यस्तवेऽवश्यं पापबन्धकारणीभूतः कायवधोऽवश्यंभावी इति सूरेरभिप्रायो मन्तव्यः स्यात् । इतश्च पञ्चमपञ्चाशकवृत्तौ सूरिणा प्रतिपादितं यदुत 'विशिष्टयतनासत्त्वे तु द्रव्यस्तवे सर्वथा कायवधो नैव भवति' इति । एवं च विशिष्टयतनाशालिनि द्रव्यस्तवे कायवधाभावात् अल्पपापबन्धोऽपि नैव स्यात्, ततश्च चतुर्थपञ्चाशकवृत्तिस्वरूपस्य पूर्वग्रन्थस्य पञ्चमपञ्चाशकवृत्तिस्वरूपस्य अपरग्रन्थस्य च परस्परं विरोध: स्यात्। यत एकत्र सर्वस्मिन्नपि द्रव्यस्तवे कायवधः, तज्जन्य अल्पपापबन्धश्च प्रतिपादितः, अन्यत्र तु विशिष्टयतनाशालिनि द्रव्यस्तवे तदभावः प्रतिपादित इति स्पष्टमेव पूर्वापरविरोध इति । यशो.: न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं जल्पति । तस्मादीषद्दोषदुष्टं जिनपूजादिकं | विधिविरहभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः । चन्द्रः ननु भवतु नाम पूर्वापरविरुद्धं वचनं, को दोष: ? अरे मुग्ध ! न च तादृशः नवाङ्गीवृत्तिकरणादिविशिष्ट श्रुतप्रतिभादिसम्पन्नः तपस्वी = उत्सूत्रप्ररूपणादिपापविपाकभयग्रस्तः पूर्वापरविरुद्धं वचनं जल्पति। तस्मात् सूरे: पूर्वापरविरुद्धवचनासम्भवात् इषद्दोषदुष्टं जिनपूजादिकं चतुर्थपञ्चाशके सूरिणा कूपदृष्टान्तेन सह योजितं यद्, तत् विधिविरहभक्तिकालीनमेव न तु विधिसमन्वितभक्तिकालीनमपि, तत्रेषद्दोषस्याप्यभावादिति 'एव 'कारार्थः । आशय एव युक्तः । चतुर्थपञ्चाशकवृत्तौ सूरिणा विधिविरहभक्तिसहितं जिनपूजादिकमाश्रित्य प्रतिपादनं कृतं, न तु सर्वमपि जिनपूजादिकमिति भावः। ૨૬

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106