Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 31
________________ - कूपदृष्टान्तविशदीकरणं - यन्द्र : ननु सूरेरयमाशयो यदि न स्वीक्रियते, तर्हि को दोष: ? इति चेत् यदि च इत्यादि। विधिसामग्ग्रेऽपि = विधेरभावे तावत् यतनाऽभावात् पुष्पजलोपहारादिरूपहिंसादोषः तात्त्विकहिंसादोषरूपत्वेन दोषो गण्यत एव, किन्तु यत्र सम्पूर्णयतना भवति, तत्रापि इत्यपि शब्दार्थः । पुष्पजलोपहारादिरूपहिंसादोषो = प्रमादाभावे केवलं द्रव्यहिंसारूपो अत्र = जिनपूजायां परिगण्येत, तदा = एवं सति तस्य = तादृशदोषस्य पूजानान्तरीयकत्वेन = पूजायामवश्यंभावित्वेन कायवहो जइवि होई उ कहंचि त्ति नावक्ष्यत् = नावदत् आचार्यः = श्रीहरिभद्रसूरिः। तर्हि किं अवदत् ? इत्याह - किन्तु 'कायवहो होइ जइवि नियमेण' मित्येवाऽवक्ष्यत्। ___ अयं भावः - 'प्रमादयोगेन प्राणव्यपरोपणं, प्रमादाऽभावेऽपि च प्राणव्यवपरोपणं' इत्येवं द्वाभ्यां प्रकाराभ्यां कायवधो भवति। तत्र प्रथमस्तात्त्विकी हिंसा, सैव च दोषः, द्वितीयस्तु न तात्त्विकी हिंसेति स न दोषः। अत एव कहंचि पदमुपात्तमाचार्येण। यस्मात् यतनाविशेषेण प्रवर्तमानस्य प्रथमः कायवधो न भवति, स एव च दोषः, ततश्च यतनासत्त्वे तस्याभावेन तत्र तस्य निषेधो वक्तुं शक्यते। ___किन्तु यदि प्रमादाभावेऽपि प्राणव्यपरोपणं कायवधो दोषत्वे परिगणनीयः स्यात्, तर्हि स तु यतनासत्त्वेऽपि भवत्येव, यस्मात् पूजा पुष्पाद्युपनयनादिरूपैव, ततश्च तस्यां स भवेदेव। ततश्च यतना भवतु मा वा, कायवधस्तु नियमेन भवेदेव। एवं च कायवहो जइवि होई उ नियमेणं इत्येव वक्तव्यं स्यात्, न तु कहंचि इति। एवं तावत् 'कहंचि' पदसामर्थ्यनाचार्याणामाशयः प्रसाधितः। यशो. : अपि च पदार्थवाक्यार्थमहावाक्यार्थऐदंपर्यार्थविचारणायां हिंसासामान्यस्य निषेधस्य अविधिनिषेधपरताया एव व्यवस्थितत्वात् विधिसामग्ये न हिंसादोषः, अन्यथा चैत्यगृहलोचकरणादौ | तत्सम्भवो दुर्निवार इत्यादिसूक्ष्ममीक्षितमुपदेशपदादौ। यन्द्र.: अधुना युक्त्यन्तरेण तमेव साधयन्नाहुः महोपाध्यायाः - अपि च इत्यादि। अयं भावः - (१) सर्वे जीवा न हन्तव्याः' इति आगमवाक्यं, तदर्थस्तु ‘एकोऽपि जीवो न हन्तव्य' इति। अयमेव पदार्थः। (२) "ननु एकोऽपि जीवो न हन्तव्यः, तर्हि जिनपूजा कथं करणीया? साधर्मिकवात्सल्यं, गुरुवन्दनं, प्रवचनश्रवणाय गमनं, दीक्षानन्तरं च लोचकरणं, नद्युत्तरणमित्यादिकं कथं करणीयम् ? सर्वत्रैव जीवहिंसाया अवश्यम्भावात्" इति प्रश्न एव वाक्यार्थः । (३) → 'प्रमादत एकोऽपि जीवो न हन्तव्यः, अप्रमादभावेन धर्मार्थं गृहस्थानां जीववधो नैव दोषाय'इति अप्रमादभावेन जिनपूजादिकं सर्वं निर्दोषमेव। ___ इत्थं च 'हिंसा न कर्त्तव्या' इत्यस्यायमेव भावार्थः यदुत 'प्रमादो न कर्त्तव्यः' इति। प्रमादाभावे हिंसासत्त्वेऽपि परमार्थतोऽहिंसैव।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106