Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
-
कूपदृष्टान्तविशदीकरणं - गंगेशोपाध्यायविरचितः तत्त्वचिन्तामणिनामको नव्यन्यायग्रन्थो येन स इति।
अत्र सिद्धान्तसुधास्वादी, परिचितचिन्तामणिः, नयोल्लासी' इति पदत्रयेण स्वस्य तत्त्वविवेककरणसामर्थ्य आविर्भावितम्। यतः सिद्धान्तबोधं विना, नव्यन्यायस्य सूक्ष्मबोधं विना, नयविवेचनां विना वा कूपदृष्टान्तात्मकस्य गहनतत्त्वस्य विवेकः प्रायो दुःशक एवेति। एतच्च ग्रन्थाभ्यासेनैव भविष्यत्यनुभव: सर्वेषामध्येतृणामिति।
ननु टीकाकृत् मूलकृच्च एक एव, कथं तर्हि टीकाकृत् यशोविजयः 'कुरुते न्यायाचार्यो यशोविजयः' इत्येवं निगदति? कथं 'करोमि न्यायाचार्यो यशोविजयः' इत्येवं न कथयति? इति चेत्, ___ 'यद्यपि टीकाकृत् मूलकृच्च एक एव, तथापि टीकाकृत्त्वमूलकृत्त्वधर्मयोः भेदः स्पष्टः, तमाश्रित्य धर्मीभेदोऽपि आश्रयितुं शक्यते, यथा 'टीकाकृत्त्वधर्मवान् मूलकृत्त्वधर्मवत्सकाशाद् भिन्नः' इति। एवं भेदमाश्रित्यैतन्निरूपणं न दुष्टमिति। .
यशो. : तत्रेमामिष्टदेवतानमस्कारपूर्वकं प्रतिज्ञागर्दा प्रथमगाथामाह - यन्द्र.: तत्र = तत्त्वविवेके कर्त्तव्ये सति इमां = अनन्तरमेव प्रतिपादयिष्यमाणत्वेनासन्नां.
इष्टदेवतानमस्कारपूर्वकं क्रियाविशेषणमिदम्। तथा च यथा इष्टदेवतानमस्कारः पूर्वं भवति, तथा प्रतिज्ञागर्भा प्रथमगाथां आह इति। . यशो.: नमिऊण महावीरं, तियसिंदणमंसियं महाभागं ।
विसईकरेमि सम्मं, दव्वथए कुंवदिद्रुतं ।।१।। यन्द्र.: प्रथमगाथायाः संस्कृतछाया अन्वयश्च इत्थम् - → त्रिदशेन्द्रनमस्यितं महाभागं महावीरं नत्वा । द्रव्यस्तवे कूपदृष्टान्तं सम्यक् विशदीकरोमि। - __यशो.: नत्वा महावीरं त्रिदशेन्द्रनमस्कृतं, महाभाग = महानुभावं, महती आभा = केवलज्ञानशोभा, तां गच्छति यः, स तथा तमिति वा। विशदीकरोमि = निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि। सम्यक् = असम्भावनाविपरीतभावनानिरासेन, द्रव्यस्तवे स्वपरोपकारजनकत्वान्निर्दोषतया साध्ये इति शेषः। कूपदृष्टान्तं = अवटदृष्टान्तं, धूमवत्त्वाद्वह्निमत्तया साध्ये पर्वते महानसं दृष्टान्त इतिवदयं प्रयोगः ।
यन्द्र.: अधुना प्रथमगाथाया या टीका, तद्गतान् पदार्थान् स्पष्टीकरोमि। विशदीकरोमि = निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि । अयं भावः-द्वौ जनौ गच्छतः, तत्र पुरःस्थितं वृक्षं दृष्ट्वा एकस्य भ्रमो भवति 'अयं पुरुषः',

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106