Book Title: Kupdrushtant Vishadikaranam
Author(s): Chandreshakharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
यशो. : प्रतिज्ञातमेवाह
--
कूपदृष्टान्तविशदीकरणं
सपरोवयारजणगं जणाण, जह कूवखणणमाइट्ठ । अकसिणपवत्तगाणं तह, दव्वथओ वि विणणेओ ॥ २ ॥
थन्द्र. : प्रतिज्ञातमेव = कूपदृष्टान्तस्य सम्यग्विशदीकरणमेव प्रथमगाथायां प्रतिज्ञातं, ततश्च तदेव, न त्वन्यत्। द्वितीयगाथायाः संस्कृतछाया अन्वयार्थश्चायम् -
→ यथा जनानां कूपखननं स्वपरोपकारजनकं आदिष्टम्।
तथा द्रव्यस्तवोऽपि अकृत्स्नप्रवर्तकानां (स्वपरोपकारजनकः) विज्ञेयः ||२॥
यशो.: यथा जनानां कूपखननं निर्मलजलोत्पादनद्वारा स्वपरोपकारजनकमादिष्टम्, एवं | अकृत्स्नप्रवर्त्तकानां = कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां द्रव्यस्तवोऽपि = स्नानपूजादिक: करणानुमोदनद्वारेण | स्वपरयोः पुण्यकारणं विज्ञेयः ।
=
चन्द्र. : अधुना टीका विक्रीयते ।
अकृत्स्नप्रवर्तकानां = कृत्स्नसंयमेऽप्रवृत्तिमतां कृत्स्नसंयमो नाम सर्वविरतिः, तत्र प्रवृत्तिरहितानामित्यर्थः। द्रव्यस्तवोऽपि आस्तां तावत्सामायिकादिरूपं निरवद्यानुष्ठानं पुण्यकारणं, किन्तु जलपुष्पादिविराधनामयोऽपि द्रव्यस्तवः पुण्यकारणमित्यपिशब्दार्थः।
द्रव्यस्तवः किंस्वरूप: ? इत्याह स्नानपूजादिक इति ।
स कथं पुण्यकारणं ? इत्याह करणानुमोदनद्वारेण इति । स्वपरयोः इति । स स्वयं द्रव्यस्तवं करोति इति द्रव्यस्तवः स्वस्य करणद्वारेण पुण्यकारणम् । स्वं कुर्वन्तं दृष्ट्वा परोऽनुमोदयति यथा 'अहो !शोभना पूजा क्रियतेऽनेन' इत्यादि । ततश्च स्वकृतो द्रव्यस्तवः परस्यानुमोदनद्वारेण पुण्यकारणमित्यर्थः ।
स्पष्टान्वयस्त्वेवम् –
गृहिणां स्नानपूजादिको द्रव्यस्तवः करणद्वारेण स्वस्य पुण्यकारणम्,
गृहिणां स्नानपूजादिको द्रव्यस्तवः अनुमोदनद्वारेण परस्य पुण्यकारणम् इति।
यशो. : दृष्टान्ते उपकारो द्रव्यात्मा, दान्तिके च भावात्मेति भावः ।
उपकारः,
शब्द्र. : ननु ‘गृहिणां द्रव्यस्तवः स्वपरोपकारजनकः कूपखननवद् 'इत्यत्र कूपखनने जलप्राप्तिप्रभृतिरूप द्रव्यस्तवात्मके पक्षे तु पुण्यबन्धादिरूप उपकार इति उपकाररूपं साध्यं विभिन्नमस्ति, न चैतद्युक्तम्, किन्तु दृष्टान्ते पक्षे च साध्यमेकमेव भवितुमर्हति । यथा 'पर्वतो वह्निमान् धूमात् महानसवत्' इत्यत्र दृष्टान्ते महानसे पक्षे च पर्वते वह्निरेव साध्यः, न तु पृथग् द्वे वस्तुनि इति शङ्कायामाह दृष्टान्त... इत्यादि ।
૧૬

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106