SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ यशो. : प्रतिज्ञातमेवाह -- कूपदृष्टान्तविशदीकरणं सपरोवयारजणगं जणाण, जह कूवखणणमाइट्ठ । अकसिणपवत्तगाणं तह, दव्वथओ वि विणणेओ ॥ २ ॥ थन्द्र. : प्रतिज्ञातमेव = कूपदृष्टान्तस्य सम्यग्विशदीकरणमेव प्रथमगाथायां प्रतिज्ञातं, ततश्च तदेव, न त्वन्यत्। द्वितीयगाथायाः संस्कृतछाया अन्वयार्थश्चायम् - → यथा जनानां कूपखननं स्वपरोपकारजनकं आदिष्टम्। तथा द्रव्यस्तवोऽपि अकृत्स्नप्रवर्तकानां (स्वपरोपकारजनकः) विज्ञेयः ||२॥ यशो.: यथा जनानां कूपखननं निर्मलजलोत्पादनद्वारा स्वपरोपकारजनकमादिष्टम्, एवं | अकृत्स्नप्रवर्त्तकानां = कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां द्रव्यस्तवोऽपि = स्नानपूजादिक: करणानुमोदनद्वारेण | स्वपरयोः पुण्यकारणं विज्ञेयः । = चन्द्र. : अधुना टीका विक्रीयते । अकृत्स्नप्रवर्तकानां = कृत्स्नसंयमेऽप्रवृत्तिमतां कृत्स्नसंयमो नाम सर्वविरतिः, तत्र प्रवृत्तिरहितानामित्यर्थः। द्रव्यस्तवोऽपि आस्तां तावत्सामायिकादिरूपं निरवद्यानुष्ठानं पुण्यकारणं, किन्तु जलपुष्पादिविराधनामयोऽपि द्रव्यस्तवः पुण्यकारणमित्यपिशब्दार्थः। द्रव्यस्तवः किंस्वरूप: ? इत्याह स्नानपूजादिक इति । स कथं पुण्यकारणं ? इत्याह करणानुमोदनद्वारेण इति । स्वपरयोः इति । स स्वयं द्रव्यस्तवं करोति इति द्रव्यस्तवः स्वस्य करणद्वारेण पुण्यकारणम् । स्वं कुर्वन्तं दृष्ट्वा परोऽनुमोदयति यथा 'अहो !शोभना पूजा क्रियतेऽनेन' इत्यादि । ततश्च स्वकृतो द्रव्यस्तवः परस्यानुमोदनद्वारेण पुण्यकारणमित्यर्थः । स्पष्टान्वयस्त्वेवम् – गृहिणां स्नानपूजादिको द्रव्यस्तवः करणद्वारेण स्वस्य पुण्यकारणम्, गृहिणां स्नानपूजादिको द्रव्यस्तवः अनुमोदनद्वारेण परस्य पुण्यकारणम् इति। यशो. : दृष्टान्ते उपकारो द्रव्यात्मा, दान्तिके च भावात्मेति भावः । उपकारः, शब्द्र. : ननु ‘गृहिणां द्रव्यस्तवः स्वपरोपकारजनकः कूपखननवद् 'इत्यत्र कूपखनने जलप्राप्तिप्रभृतिरूप द्रव्यस्तवात्मके पक्षे तु पुण्यबन्धादिरूप उपकार इति उपकाररूपं साध्यं विभिन्नमस्ति, न चैतद्युक्तम्, किन्तु दृष्टान्ते पक्षे च साध्यमेकमेव भवितुमर्हति । यथा 'पर्वतो वह्निमान् धूमात् महानसवत्' इत्यत्र दृष्टान्ते महानसे पक्षे च पर्वते वह्निरेव साध्यः, न तु पृथग् द्वे वस्तुनि इति शङ्कायामाह दृष्टान्त... इत्यादि । ૧૬
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy