________________
-
लकूपदृष्टान्तविशदीकरणं
-
___इति निरुक्तात्सकलापायमूलभूतकर्मविदारणक्षमतपोवीर्यविराजमानत्वाभिधानादपायापगमातिशयः |१, त्रिदशेन्द्रनमस्कृतमित्यनेन पूजातिशयः २, महाभागमित्यनेन ज्ञानातिशयः प्रतिपादितः ३, वचनातिशयश्च सामर्थ्यगम्य इति ४ ॥१॥
यन्द्र.: ननु ग्रन्थारम्भे भगवतोऽतिशयाः प्रतिपाद्यन्त इति ग्रन्थेषु दृश्यते। प्रकृतग्रन्थे तु ते किमर्थं न प्रतिपादिताः इति चेत् प्रतिपादिता एव। एतदेवाह अत्र च.... इत्यादि।
ननु अस्माभिर्न दृश्यत इति चेत् दर्शयामि। तथाहि इत्यादि। अत्र → महावीरमित्यनेन.. अपायापगमातिशयः प्रतिपादित: + इत्येवं अन्वयः कार्यः। ननु 'महावीरम्' इति पदेन अपायापगमातिशयप्रतिपादनं कथं भवति? इति चेत् इत्थं,
यस्मात्कारणात् स कर्म विदारयति, यस्माच्च कारणात् तपसा विराजते। यस्माच्च कारणात् तपोवीर्येण युक्तः, तस्मात् स 'वीरः' इति स्मृतः। - इदं च वीरपदस्य निरुक्तं अस्ति, अस्माच निरुक्तात् सकलापायमूलभूतानां कर्मणां विदारणे क्षमं यत् तपोवीर्य, तेन विराजमानत्वस्याभिधानं भवति, कर्मविदारणं च अपायापगम एवेति अपायापगमातिशयो महावीरपदेन प्रतिपादित इति।
ननु किं नाम निरुक्तं, किं च व्युत्पत्तिरिति चेत्, अक्षरप्राधान्यमङ्गीकृत्य व्याकरणं गौणीकृत्य योऽर्थः तन्निरुक्तम्। व्याकरणानुसारेण योऽर्थः, सा व्युत्पत्तिरिति सङ्केपार्थः।
यथा 'श्रावकः' इति पदस्य श्रद्धावान् इति श्रा, विवेकवान् इति व, क्रियावान् इति कः, ततश्च श्रद्धाविवेकक्रियावान् श्रावक उच्यते। अत्र अक्षरप्राधान्यमेवाङ्गीकृत्यार्थो गृह्यते, ततश्चेदं निरुक्तम्।
'श्रुणोतीति श्रावक' इति तु पदं व्याकरणानुसारेणेति सा व्युत्पत्तिः।।
प्रकृते तु वीरपदे यौ वी र इति द्वौ अक्षरौ, तौ विदारयति इति पदे वर्तेते, विराजते इति पदे च वर्तेते, ततश्च तौ प्रधानीकृत्य कर्मविदारणाद् वीरः, तपोवीर्येण विराजनाद् वीर इति निरुक्तं गृहीतम्।
त्रिदशेन्द्र.... इत्यादि।
महाभागम् इत्यनेन ज्ञानातिशयः.... इत्यादि। 'महती आभा = केवलज्ञानशोभा, तां गच्छतीति महाभागः, तं' इत्येवं यः समासः कृतः, तत्र केवलज्ञानग्रहणात् ज्ञानातिशयप्रतिपादनं भवत्येवेति।
ननु वचनातिशयो न प्रतिपादित इति चेत् वचनातिशयश्च सामर्थ्यगम्य इति। अर्थापत्त्या गम्य इति। यस्य हि त्रयोऽतिशया भवन्ति, तस्य चतुर्थो भवत्येवेति एवमर्थापत्त्या स अवगम्यते। एवं तावत्प्रथमगाथावृत्तिर्व्याख्याता ।
पगम्यता .