________________
कूपदृष्टान्तविशदीकरणं
रक्तादिरूपवत्यां गवि न सम्भवति, तथा च रक्तादिगवि अपि 'इयं न गौः, श्यामरूपाभावात्' इत्यादि विपरीतज्ञानं भवति ।
प्रस्तुते कूपदृष्टान्तस्य अज्ञानं विपरीतज्ञानं वा यथा न स्यात्, तथैव तस्य विशदीकरणं प्रदर्शयिष्यते महोपाध्यायैः इति भावः ।
ननु यत्र पक्षः साध्यो हेतुश्च भवन्ति, तत्र हेतोः सकाशात्साध्यं पक्षे साधयितुं व्याप्तिस्थानभूतो दृष्टान्तः प्रतिपाद्यते। प्रकृते तु 'द्रव्यस्तवे' इति पदेन केवलं पक्ष एव प्रतिपादितः, ततश्च को हेतुः कश्च साध्यः ? इति न ज्ञायत इत्यत आह -
स्वपरोपकारजनकत्वान्निर्दोषतया साध्ये इति शेषः इति ।
तथा चानुमानमिदम् –
द्रव्यस्तवः निर्दोषः स्वपरोपकारजनकत्वात्, कूपखननवत् ।
अत्र द्रव्यस्तवः पक्षः,
निर्दोषत्वं साध्यं, स्वपरोपकारजनकत्वं हेतु:, कूपखननं दृष्टान्त इति ।
ननु एतादृशः प्रयोगः कुत्र प्रसिद्धः, यदनुसारेण प्रकृतः प्रयोगः सम्यगवगम्यते ? इति जिज्ञासायां प्रकृतप्रयोगबोधार्थं प्रसिद्धं प्रयोगान्तरमाह - धूमवत्त्वाद् वह्निमत्तया साध्ये इत्यादि।
तथा च
-
यथा पर्वतो वह्निमान् धूमवत्त्वात् महानसवत् इति प्रयोगः क्रियते, तथैवायं प्रयोगो दृष्टव्य इति । ननु गाथायां सम्यग् पदं यदि न गृह्यते, तर्हि को दोष:, विशदीकरणमेव ग्राह्यम्, तत् सम्यग् मिथ्या वा केनापि प्रकारेण भवतु इति चेत् तर्हि सिद्धसेनब्राह्मणवन्मूर्खशेखरो भविष्यसि । तेन हि गोपालानां पुरतः पदार्थानां विशदीकरणं कृतं, किन्तु अज्ञानिनां गोपालानां तु तत्र संस्कृतभाषाया एवाज्ञानात् सर्वं निरर्थकमेव सञ्जातम्। एवं दिगम्बरमतप्रस्थापकेन श्रोतॄणां समक्षं तथा स्वपदार्थानां विशदीकरणं कृतं, यथा तेषां विपरीतेऽपि ज्ञाने प्रामाण्यं निश्चितमभवत् । न च तेषां तादृशं ज्ञानं हितकारि, ततश्च ते विपरीते ज्ञाने प्रामाण्यं निश्चित्याधिकतरं दोषभागिनोऽभवन् ।
तस्मात् असम्भावनाविपरीतभावनानिरासेनैव सत्यज्ञाने एव प्रामाण्यनिश्चयो युक्तः, ततश्च सम्यक्पदग्रहणं युक्तमेव ।
यशोः अत्र च भगवतश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि - महावीरमित्यनेन विदारयति यत्कर्म, तपसा च विराजते ।
तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।। १ ।। इति
१४