________________
CMO
कूपदृष्टान्तविशदीकरणं
-
तथा च यथा महानसे महानसीयो वझिरस्ति, पर्वते तु पर्वतीयः, इति उभयत्र भिन्न एव वह्मिः, तथाऽपि वह्मित्वेन धर्मेण स समानः। एवमत्रापि कूपखनने जलप्राप्त्यादिरूपो द्रव्योपकारः, द्रव्यस्तवे तु पुण्यबन्धादिरूपो भावोपकार इत्येवं उभयत्र भिन्न एव उपकारः, तथापि उपकारत्वेन धर्मेण स समान एवेति प्रकृतानुमाने न कोऽपि दोष इति।
इदमत्रावधेयम् -
'द्रव्यस्तवो निर्दोषः स्वपरोपकारजनकत्वात् कूपखननवत्' इत्येतादृशमेव अनुमानं निगदितमस्ति, न तु 'द्रव्यस्तवो हिंसादियुक्तत्वात्किञ्चिद्दोषयुक्तोऽपि गुणकर: स्वपरोपकारजनकत्वात् कूपखननवत्' इत्यादिरूपम्। एष एव च महान् भेदः प्रकृतग्रन्थ इति।
यशो.: नन्वियं योजनाऽभयदेवसूरिशैव (चतुर्थ)पञ्चाशकवृत्तौ दूषिताऽन्यथायोजना च कृता। तथाहि -
“ण्हाणाइवि जयणाए, आरंभवओ गुणाय णियमेणं ।
- सुहभावहेउओ खलु विण्णेयं कूवणाएणं' ।।१०।। स्नानाद्यपि = देहशौचप्रभृतिकमपि आस्तां पूजार्चादि, आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योगः, यतनया = रक्षयितुं शक्यजीवरक्षणरूपया। तत्किं साधोरपीत्याशब्याह आरम्भवतः = स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवोपमर्दयुक्तस्य गृहिण इत्यर्थः, न पुनः साधोः, तस्य सर्वसावद्ययोगविरतत्वाद् भावस्तवारूढत्वाच्च। भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्, तस्य च स्वत एव सिद्धत्वात्। इमं चार्थं प्रकरणान्तरे स्वयमेव वक्ष्यतीति। गुणाय = पुण्यबन्धलक्षणोपकाराय, नियमेन अवश्यम्भावेन।।
यन्द्र.: एवं तावत्स्वमतं प्रदाधुना पूर्वपक्षं प्रदर्शयति - ननु इत्यादिना। इयं योजना = 'द्रव्यस्तवो निर्दोषः स्वपरोपकारजनकत्वात् कूपखननवत्' इत्येवंरूपा कूपदृष्टान्तयोजना अभयदेवसूरिणैव = भवतामपि बहुमान्येनैव, न तु येन केनचित् इत्येवकारार्थः, पञ्चाशकवृत्तौ दूषिता = दोषयुक्ता प्रतिपादिता, अन्यथायोजना च = भवदुक्तप्रकारादन्येन प्रकारेण कूपदृष्टान्तघटना च कृता। ___ हे महोपाध्याय! भवान् यथा कूपदृष्टान्तं प्रतिपादयति तथा प्रतिपाद्यमानं तु भवत्पूज्येनैवाभयदेवसूरिणा खण्डितम्, अन्येन च प्रकारेण तत्प्रतिपादनं कृतमिति।
पूर्वपक्षः स्वमतसमर्थनार्थं पञ्चाशकवृत्तिपाठं दर्शयति-तथा हि पहाणाइ वि इत्यादि।
गाथाया अन्वयस्त्वेवम् → आरम्भवतः स्नानाद्यपि शुभभावहेतुत्वात् कूपज्ञातेन नियमेन गुणाय विज्ञेयं खलु - इति।
तदर्थस्तु तट्टीकात: स्पष्टो ज्ञायत एव, तथापि किञ्चिदुच्यते इति। जिनबिम्बपूजा तावत् गुणाय