SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । भवत्येव, किन्तु तदर्थं गृहस्था यत् स्वदेहशौचप्रभृतिकं कुर्वन्ति, तदपि गुणायैव इति ‘स्नानाद्यपि' इति अत्र विद्यमानस्य 'अपि' शब्दस्यार्थः। आदिशब्दात् इत्यादि। स्नानाद्यपि इत्यत्र यत् आदिपदं, तस्मात् विलेपनादि ग्राह्यम्। अर्थात् श्रावकाः स्वदेहे यत् विलेपनादि कुर्वन्ति, तदपि गुणायैवेति। केन प्रकारेण क्रियमाणं स्नानादि गुणाय? इत्याह यतनया = रक्षयितुं शक्यजीवरक्षणरूपया इति। अयं भावः - स्नाने तावत् जघन्यतो यावज्जलं आवश्यकं, तावज्जलातिरिक्तजलत्यागो यतना। किन्तु तावज्जलस्यापि त्यागो न कर्त्तव्यः, स्नानासम्भवेन पूजादेरपि असम्भवप्रसङ्गात्। तथा च स्नानार्थं आवश्यकं जलं रक्षयितुं अशक्यं, तदधिकं तु जलं रक्षयितुं शक्यं, ततश्च यदि तस्य त्यागः क्रियते, तर्हि यतना कृता भवति। तया क्रियमाणं स्नानादि गुणाय। तस्य सर्वसावद्ययोगविरतत्वात्। साधुः सर्वेभ्यः सावद्ययोगेभ्यो विरतोऽस्ति, स्नानादि च सावद्ययोगः, ततश्च साधोः तत्कर्तुं न कल्पत इति भावः। ननु नद्युत्तरणादिकं अपि सावद्ययोगः, तथाऽपि साधुः विशेषलाभार्थं तदाचरत्येव, एवं स्नानाद्यपि किमर्थं नाचरेत् ? तत्रापि विशेषलाभो भविष्यत्येवेत्यत: अभयदेवसूरयो युक्त्यन्तरमाह - भावस्तवारूढत्वाच्च = भावस्तवो नाम सर्वविरतिः, भावप्रधानः स्तवो भावस्तव इति, साधुश्च तमारूढ इति स द्रव्यस्तवरूपं स्नानादि नाचरतीति। ननु भवतु नाम साधुर्भावस्तवारूढः, तथाऽपि तस्य द्रव्यस्तवकरणे को दोषः, द्वौ अपि स्तवौ शोभनौ, तर्हि द्वावपि कुर्यात्साधुरित्याशङ्कायां स्पष्टीकुर्वन्नाह - भावस्तवारूढस्य हि इत्यादि। ननु किमर्थं साधोः स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव? इत्याऽऽशङ्कायां आह-भावस्तवार्थमेव तस्याश्रयणीयत्वात् इति। ननु सत्यं, भावस्तवार्थमेव द्रव्यस्तव आदरणीयः, कोऽत्र निषिध्यति? साधुरपि भावस्तवार्थमेव द्रव्यस्तवं किमर्थं नाचरेत् ? इति प्रश्ने सत्याह तस्य च स्वत एव सिद्धत्वात्। भावस्तवो हि सुसाधो: न साधनीयः, येन तत्साधनार्थं द्रव्यस्तवाचरणं कर्त्तव्यं भवेत्, किन्तु तस्य भावस्तवः स्वत एव = द्रव्यस्त विनैव सिद्ध एव, ततश्च निरर्थकमेव तस्य द्रव्यस्तवाचरणमिति। औषधकल्पो हि द्रव्यस्तवः, कुटुम्बाद्यर्थं सावधयोगा हि रोगकल्पाः, सर्वविरतिस्तु नीरोगावस्थासदृशी। ततश्च रोगिणो औषधग्रहणं नीरोगावस्थार्थं युक्तमेव। किन्तु साधुस्तु स्वयं नीरोग एवास्ति, ततश्च स किमर्थं औषधग्रहणं कुर्यात् ? शिखरारोहणार्थं सोपानपङ्कितरावश्यिकी, शिखरारूढस्य तु सा निष्प्रयोजनैव। एवमेव भावस्तवारोहणार्थं द्रव्यस्तवो युक्तः, भावस्तवारूढस्य तु स निरर्थक एव। एवं अन्येऽपि दृष्टान्ताः स्वयमभ्युयाः।
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy