Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ सूरिपरंपरा-प्रशस्तिः ॥
भूतो न कोऽपि न भविष्यति भूतलेऽस्मिन् श्रीस्थूलभद्रसदृशो मुनिपुङ्गवेषु । रागभुवनेऽपि जितो हि कामः पण्याङ्गनावरगृहे वसता निकामम् ॥१२॥ ताते स्वर्गं गतेऽपि क्षितिपतिमणिना नन्दभूपेन राज्यमुद्रामस्यार्प्यमाणामपि च विगणयन् मोक्षदुर्गस्य मुद्राम् । भोगान् भोगीशतुल्यान् परिणतिविषमाः पण्यनारीर्विचार्य
त्यक्त्वैवं सर्वमेतद्वरचरणभरं यो दधार स्वदेहे ॥ १३ ॥ धन्यो हि सोऽपि जनकः शगडालमन्त्री लक्ष्मीच सा जनिकरी युवतीषु धन्या । वंशोऽपि धन्य इह नागरवाडवीयो यत्राजनिष्ट मुनिरेष मुनीन्द्रवन्द्यः || १४ || शिष्यौ च स्थूलभद्रस्य महागिरि - सुहस्तिनौ । दशपूर्वधरावेतौ प्रवीणौ पुण्यशालिनौ || १५॥ जिनकल्पतुलां विभ्रत्तयोरेको महामुनिः । द्वितीयसंप्रतिक्ष्माप - प्रतिबोधकरोऽभवत् ॥ १६ ॥ तस्योपदेशतोऽनेके विहाराः कारिता भुवि । तेन संप्रतिभूपेन यथा भूर्जिनमण्डिता ॥ १७॥ वज्रः प्रवचनाधारस्तत्पदानुक्रमादभूत् । सुनन्दाकुक्षिसंभूतो जातमात्रो विरागवान् ||१८|| पालन के स्वपन्नेकादशाप्यङ्गानि लीलया । योऽपठद्वालभावेऽपि साध्वीनां वसतौ स्थितः॥१९॥ प्रवर्धमानः क्रमशः शशाङ्कवत् ददत्प्रमोद सकलेऽपि सङ्घ ।
Jain Education International
मातुर्विवादेऽपि गृहीतवाँघुरजोहृतिं वाचमभूषयत्पितुः ॥ २० ॥ अथेो गुरुः सिंहगिरिर्निजायुः पर्याप्तिमालोक्य पदं स्वकीयम् ।
भिन्नपञ्चद्विक- पूर्वधारिणे मुनीन्द्रवज्राय ददौ समाहितः ॥ २१ ॥ श्रीवज्रसूरिर्गुणलब्धिभूरिः कुर्वन् विहारं विविधेऽपि देशे ।
प्रोत्सर्पणां श्रीजिनशासनेऽस्मिन् नानाविधां प्रातनुत प्रभुर्यः ॥ २२ ॥ स्वयंवरे तां धनरत्नकोटिसमन्वितां श्रेष्ठितां त्यजन्तम् ।
अपि स्वरूपेण जितस्वरङ्गनां तं वज्रसूरिं प्रणमामि सादरम् || २३ || श्रीष्टिवादनाय गतेन मातुर्वाचा सुपूर्वनवकं च पपाठ सार्द्धम् । श्री आर्यरक्षित गुरुः समुदे शमाढ्यः संबोधिताखिलपरीवृतिरेष भूयात् ॥ २४ ॥ श्रीमदुल कादिपुष्पसुगुरू: श्री आर्यनन्दिप्रभुः
tararaateer विजयी श्री रेवतीसूरिराद् । ब्रह्मद्वीपिगुरुः सदार्यसमितेः संप्राप्तदिक्षश्चिरं
खण्डिल्लो हिमवान् गुरुर्विजयते नागार्जुनो वाचकः ॥ २५ ॥ गोविन्दाभिधवाचकं गुरुवरं संभूतिदिन्नाह्वयं
श्रीहित्य मुनिं सदा प्रणिदधे श्रीपौष्य मुख्यं गणिम् । भाष्याद्येषु ( १ ) विधायक मुनिवरोमास्वातिसद्वाचकं
वन्दे श्रीजिनभद्रसूरितिलकं नित्यं कृतप्राञ्जलिः || २६ ॥ त्रिखण्डमेदिनीराज्यं पालयन् सर्वतः प्रभुः । अवन्त्यां विक्रमादित्यः प्रबोध्य श्रावकी कृतः २७||
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76