Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली-३ ॥
४९ सर्वथा निर्धनो न भविष्यति २। खरतरः श्राद्धः कुमरणेन न मरिष्यति ३। साध्वीनां रतिर्न समेष्यति ४ । भवन्नाम गृहीते विद्युन्न पतिष्यति ५ । निर्धनः श्राद्धो यः सिन्धुदेशे समेष्यति स सधनो भविष्यति ६ । भवन्नाम्ना शाकिन्यो न लगिष्यन्ति ७। श्रीगुरूणां पार्थे सर्वदा समेति । परस्परं प्रीतिर्जाता । एकदा पीरैः पार्थात् रूप्यमुद्राशतं दर्शितं, गुरुभिः सुवर्णमुद्रासहस्रकं दर्शितं आसनाधः । एकदा पीरे स्थिते साधवः आहारार्थं गताः म्लेच्छैरुक्तं-अस्माकं भोजनं देयं । तैरुक्तमयुक्तमेतत् । गुरुभिस्ते म्लेच्छाः समाहूताः, उक्तं चात्र तिष्ठत, भोजनं दापयिष्यामः। श्रावकानाहूय तेषां मिष्टभोजनं कारितं । एवं वारद्विकं, तेन ते सन्तुष्टाः । एकदावसरे संग्रामे मृताः । संजाता देवाः । रात्रौ श्रीगुरूगां स्वमान्तरे प्रत्यक्षी बभूव । कुत्रास्माकं स्थान ? श्रीपूज्यैरुक्तं-पश्चनद्यां, यत्र माणिभद्रो यक्षोऽस्ति तत्र यूयमपि वसत । भोजनं याचितं तथैव गुरुभिर्दापितं, सन्तुष्टाऽतीव । एकदा देराउरस्वामीहिंदुको राजपुत्रः स क्रमेणातीव निर्धनो बभूव । गुरूणां पार्श्वे समेतः साधूनां भारवाहको जातः, सुखेनाजीविकां करोति । गुरवस्तुष्टाः। तेन देराउरदुर्गः कारितः । सोमाख्यस्तस्य सेवकोऽभूत् । सोऽन्यदा संग्रामे प्रहारैर्जर्जरीकृतः गुरुभिरनशनं दत्तं । मृत्वा व्यन्तरो जातः सोमाः। सेोऽपि समेतो गुरुः पार्श्वे स्थानं देहीति वदन् । गुरुभिः पञ्चनद्यां स्थापितः। अथ तत्र देशे सिलेमा पर्वते तत्र पोडीयो क्षेत्रपालः, स देशाधिष्ठायकः। माणिभद्रप्रमुखा देवास्तमूचुः-प्रथमतः ये तव पूजां करिष्यति पश्चाद्वयं पूजां तस्य ग्रहिष्यामः नान्यथा। तेन प्रथमतः स पूज्यते, ततो माणिभद्रः सपीरः। एकदा श्रीगुरुभिरुक्तं'प्रतिवर्ष न कोऽपि भवतां पूजां करिष्यति, येऽस्माकं पट्टस्थायी भविष्यति स एकशो विस्तारेणागत्यात्र पूजां करिष्यति' इति पद्धतिः विहिता । खरतरगच्छाधिष्ठायकाः पश्चनदीवास्तव्यदेवाः सुप्रसन्ना भविष्यन्ति । इति पश्चनदीपूजास्थापना विचारः॥
एकदा श्रीजिनदत्तसूरयो ढिल्यां गताः। तत्र चतुःषष्टियोगिनी-पीठानि सन्ति । न वन्दन्ते स्म । कुपिता योगिन्याश्चिन्तितं 'छलयाम एनं' । अथैकेन व्यन्तरेणागत्य गुरूणां प्रोक्तंअत्र योगिन्यः सन्ति, भवतः छलिष्यन्ति, सावधानतया स्थेयं । श्रीपूज्यैः रात्रौ महणसी नामा श्रावकस्तं समाहूय प्रोक्तं चतुःषष्टिः नवा पट्टलिकाः कारयित्वा समानय। महत्कार्यमस्ति । तेन रात्रावेव आनीताः। श्रीपूज्यैः मन्त्रिताः। प्राताख्यानावसरे एकस्य श्रावकस्योक्तं चतुःषष्टिः श्राविकाः एकेन टोलकेनाद्य समेष्यति । दक्षिणदिशि स्थास्यन्ति श्वेतवस्त्राः । तासां पट्टलिका एताः प्रदेयाः । व्याख्यानावसरे समेताः, श्राद्धेन दत्ताः, सर्वस्थिताः । श्रीगुरुभिर्मन्त्रप्रभावेण स्थंभिताः । व्याख्यानानन्तरं गुरुभिरुक्तं यात, प्रभाते पुनरागन्तव्यं । ता लजिताः। अयं महाविद्यापात्रं स्वापराधं क्षामयंतिस्म । वयं यामः। गुरुभिरुक्त-किञ्चिदस्माकं प्रयच्छत । ताभिः सप्त वरा दत्तास्तद्यथा-खरतरसाधुः प्रायो मूर्यो न भविष्यति १। साध्वी स्त्रीधर्म न यास्यति २ । खरतरसाधुसाध्वीनां न सर्पान्मृत्युः ३। खरतराणां वचनसिद्धिः ४। विद्युतो न भयं ५। शाकिन्यो न च्छलिष्यन्ति ६ । श्रीखरतर श्रावकाः ढिल्याः परतः सर्वेऽपि धनवन्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76