Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 60
________________ । खरतरगच्छ पट्टावली-३॥ ततः श्रीजिनचंद्रपट्टे संवत् १२२३ वर्षे कार्तिक सुदि १३ बव्वेरक ग्रामे श्रीजयदेवाचार्येण १४ वर्ष प्रमाणानां पदं दत्तं । श्रीमालतांबी गोत्राभ्यां सा. रामदेव सा. मानदेवाभ्यां महोत्सवश्वकाते । श्रीजिनपत्तिसूरिलिभावे चारित्रं गृहीत्वा प्राप्तपदः पंचशतसाधुपरिवारेण हिंसारसमीपे हांसी नगरे समेतः। श्रीपार्श्वनाथप्रतिमा श्रावकैः कारिता । श्रीजिनप्रासादो नवीनः कारितः। प्रतिष्ठावसरे नरमणिग्राही योग्यपि तत्रागतः। योगिना ज्ञातं अस्य गुरोः पार्थे विद्याऽभूत् , अस्य पार्श्वस्ति न वेति परीक्षार्थं चैत्ये प्रतिमा स्तंभिता । स्थानान्न चलति । जनानामग्रे योगी वक्ति मयैषा स्थभितास्ति युष्माकं गुरुरुत्थापयतु । तत आचार्या उपाध्यायाश्च सविषादा जाताः। विद्या कस्यापि पार्श्व नास्ति । ततः प्रतिष्ठांतरायो जातः। तदा साध्या शिक्षिता नार्यों गायति 'बालचंद्रः चंद्रिकां न करोति, अयं बालो गुरुः किं जानाति । गुरुभिश्चिताकृता 'धिग् मे जीवितं'। एकदा श्रीपूज्येन सूरिमंत्रगोलको वीक्षितो मध्ये सार्धतृतीयाक्षरो मंत्राधिपो स्थितः । निर्वास्य गुरवो जपंति स्म। पद्मावती समेता । प्रभाते आचार्याः पाठका व्याख्यानं कुर्वति, तावत् बालकैः परिवृतो गुरुः क्रीडां कुर्वन् चैत्ये गतः। प्रतिमा स्तंभिताऽस्ति योगी वक्ति । शिरसि वासक्षेपं कृतं, स्तंभितश्च सः । श्रीसंघः सर्वोपि मिलितः । जाता प्रतिष्ठा अहो गुरूणां लघूनामपि माहात्म्यं । योगी वक्ति मां मोचय, कृपां विधाय । गुरुभिरुक्तं ढिल्यां मम गुरुशिरोमणिस्त्वया गृहीतोऽस्ति तमर्पय । योगिना दत्तो मणिः । उक्तं चाहो महाभाग्य ! इमां विद्यां गृहाण परमस्य विधिरेवंरूपो वर्तते तांबुलप्रयोगे सिद्धयति । गुरुभिरुक्तं अस्माकं तांबूलभक्षणं न युक्तं, विद्या सिद्धयतु मा वा । ततो योगिना मुखात्तांबूलं निर्वास्योक्तं हे विद्ये ! याहि पातालं, तवास्मिन् लोके ग्राहकोऽन्यो नास्ति । ततः पातालं गता। ततः श्रीगुरुभिः पत्रिंशत् भट्टमिश्राणां वादे जेता गच्छसूत्रानां सूत्रधारः गच्छसमाचारी प्रवर्तकः परमसंवेगी। तस्य वारके नेमचंद्रो भंडारीगोत्रीयस्तस्य पुत्रो देवदत्तः, तेनोक्तमहं चारित्रं गृहीष्यामि । नेमचंद्रेणोचे प्रथमतोहं परीक्षां करोमि । यदि कोपि शुद्धचारित्रप्रतिपालको मिलति तदा तत्समीपे गृण्हीयाश्चारित्रं । चतुरशीति गच्छवासिनो गवेषितास्तेन परं 'जे जे दीसंति गुरू समय परिकवायति न पुजंति' इत्यादि भग्नपरिणाम आगतः सरस्वतीपत्तने जिनपत्तिसूरीणामुपाश्रये । रात्रौ समुत्थितः अलसेलकूपिका दृष्टा, ज्ञातं घृतमस्ति । कूणके वर्षाकालार्थ रक्षापि दृष्टा ज्ञातं चूर्णमस्ति । प्रातदृष्टं, ज्ञातं एते संवेगिनः । ततः स्वकीयगृहे गत्वाऽष्टवार्षिको निजपुत्रो दत्तस्तेन, दीक्षितश्च गुरुभिः । स्वर्ग गते गुरौ संवत् १२७८ माघ सुदि ६ दिने । श्रीसर्वदेवसूरिणां दत्तपदो जावालपुरे पट्टाभिषेकः श्रीजिनेश्वरसूरिः स्थापितः । परं अभिणितो मूर्खः । पूज्यैमरणकाले श्रीलब्धिचंद्रोपाध्यायानां भलामणिदत्तः। स तु न पाठयति भट्टारकं, किंतु स्वयमेव व्याख्यानादिकं करोति, गर्वं वहति, यथा मूर्खः श्रीपूज्यः अहं विद्वान् । अन्यदा वाग्भटमेरुमध्ये आगताः। तत्र महावीरवसतिं दृष्ट्वा द्वारं संकीर्ण चैत्यं बृहत् । प्रधान चावादीत् गुरुः 'चूहा नंटा वसही वड्डी अंदर कित उत्त मइ माणी' इति वचनात् प्रकटितो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76