Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 63
________________ ।। खरतरगच्छ पट्टावली-३ ।। शिरसि वासक्षेपे सर्वे पट्टस्था जाताः। प्रतिमाः प्रतिष्ठिताः ताः सर्वा मूलनायका जाताः। श्रीमालवदेशे मांडवनगरमध्ये भावका बहवो धनाढ्या जाताः । प्रासादाः प्रतिष्ठिताः । संवत् १४३३फाल्गुनवदि ६दिने श्रीअणहिल्लपत्तने पट्टाभिषेकः तत्पट्टे श्रीजिनराजसूरिः। तस्य वारके वाचनाचार्य श्रीक्षेमकीर्तयो जाताः । साधितधरणेंद्राः। दीक्षितानेकशिष्याः । पत्रिंशत्वाचकाः, द्वादशपाठकाः, क्षेमधारि (डि ? ) विश्रुताः।। पुनस्तस्य वारके आचार्याः श्रीजिनवर्धनसूरयः । तैः श्रीजेसलमेरौ पार्श्वनाथचैत्यमध्ये गंभारकात् क्षेत्रपालो निर्वासितः। तेन कुपितेन प्रतिज्ञा कृता अहं त्वां गच्छान्निर्वासयाभि । रात्री स्त्रीरूपेण समागच्छति। ततश्चित्रकूटे गताः । तत्रापि क्षेत्रपालो नारीरूपेण पश्चिमरात्रौ उपाश्रये प्रविशति, निर्गच्छति। तथा पूर्व सा० सहना केल्हणाऽऽचार्यस्य पदस्थापनं कारितमभूत् । तदा आचार्यैरक्षाविधानमर्दलकं दत्तमभूत् । राजवस्यकारकं । तस्मिन्नवसरे क्षेत्रपाले निर्वासितः आचार्यः तत्र सर्वसंघो मिलितः । नाल्हाख्यो विधवासुतः। स तु नाहूतः आचार्यैर्मादलको गृहीतः सहणापार्थात् नाल्हाकस्य दत्तः। तत् प्रभावेन पा (ग्या ?) सदीनसुरत्राण पार्थं गतः सम्मानितः। सहणाख्यो बंदिगृहे क्षिप्तः । तदा पीपिलिया खरतरगच्छो निर्गतः। ततः सप्तभिर्भकारैर्मुहूर्त मीलयित्वा भाणसोल ग्रामे १, भणीसालीगोत्रे २, भौमवारे ३, भद्राकरणे ४, भरणीनक्षत्रे ५, भावकृतगृहनामा । संवत् १४७५ माघसुदि १५ दिने भट्टारक श्रीजिनभद्रसूरिः स्थापितः। श्रीसागरचंद्रसूरिभित्रो दत्तः। रात्रौ सूरिमंत्रं समवसरणं गृहीत्वा प्रणष्टाः। श्रीजेसलमेरौ आगताः। तत्र महोत्सवाः संजाताः। सं० पांचाकेनप्रासादः कारितः श्रीसंभवनाथस्य । तत्र पुस्तकभंडागारं स्थापितं । क्रमेण सप्त प्रासादाः प्रतिष्ठिताः । संखवालगोत्रीयः श्रीकीर्तिरत्नसूरीणामाचार्यपदं दत्तं । तस्य वारके ग्रामे २ पुरे २ श्रावका धनाढ्या जाताः। तस्य शतवर्षप्रमाणं जातमायुः । तस्याष्टादश शिष्याः जाताः श्रीसिद्धान्तररुचिमहोपाध्यायश्रीकमलसंयमोपाध्यायादयः। संवत् १५१५ वर्षे वैशाखवदि २ बुधवारे अणहिल्लपत्तने पट्टाभिषेकः श्रीजिन चंद्रसूरिः । तत् स्थापितः श्रीजिनसमुद्रसूरिः। संवत् १५३३ वर्षे महासुदि १३ दिनेश्रीपुंजपुरेपट्टाभिषेकः । तत्पट्टे चोपडागोत्रे सं० १५५५ वर्षे श्रीवीकानेरवास्तव्यमं० कर्मसीकृतनंदीमहोत्सवः श्रीजिनहंससूरिः। ढिल्यां सिकंदरपातिसाहिना कारागारे क्षिप्तः। मालवावास्तव्यसोहागदेश्राविकया 'चतुर्दससाधुसमानं कनकं ददामीति प्रोक्तं' तथापि न मुंचति। सिकंदरस्य प्रतिज्ञा येन मया बद्धो मुखेन तेन कथं वच्मि मुंचथेति पंचशतबंदिन एकस्थाने स्थिताः सति । तदा क्षेत्रपालः शय्यायाः अधः पातयति, साहि तथापि न मुंचति। तदाजेसलमेरुतः क्षेत्रपालः समेतो गुरुं प्रत्यूचे यूयं वदथ एनं मारयामि । पूज्यैरुक्तं-नायमस्माकमाचारः। क्षेत्रपालेनोक्तं-भवतो नयामि जेसलमेरुं । पूज्यैरुक्तं-अन्येषां साधूनां का गतिः १ तेनोक्तमन्यानपि क्रमेणानयिष्यामि । पूज्यैरुक्त-नाहं प्रच्छन्नवृत्त्या यामि, तस्करवत् । ततः सूरिणा सूरिमंत्रो ध्यातः। आगता शासनदेवी । तयोक्तं--पश्यतु भवंतो मम माहात्म्यं । तया साहिशरीरे महावेदना कृता । यथायथोपायान् कुर्वति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76