Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 61
________________ । खरतरगच्छ पट्टावली-३ ॥ मूर्खभावः । ततो गता अणहिल्लपुरपत्तनं, । सरस्वती नदीतीरे । उत्तीर्णा नदी । पूज्यैश्चितितंप्रातः संघो मिलिष्यति, नाहं व्याख्यानं कर्तुं समर्थः, तस्मानमरणमेव मम सुंदर; इति विमृश्य स्वयमुत्थितः सूरिः। सूरिमंत्रं परित्यज्य प्रविष्टो नद्यां मरणाय । ततो भाग्योदयात् सरस्वतीतुष्टा, वरमिति ददौ-त्वं महान् विद्यावान् भवेः। पश्चादागत्य सुप्तः। प्रभाते मिलिताः सर्वे लोकाः पूज्याः स्थिताः। लब्धिचंद्रश्चितयति-ममादेशः कथं न दीयते भट्टारकाः ! । तावदेव गुरुभिर्नवीनकाव्येनोपदेशोदत्तः। तद् यथा अहंतो भगवंत इंद्रमहिताः सिद्धाश्च सिद्धिस्थिताः आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धान्तसुपाठका मुनिवराः रत्नत्रयाराधकाः पंचते परमेष्ठिनः प्रतिदिनं कुर्वतु वो मंगलम् ॥ १॥ इत्यादिना चमत्कृत उपाध्यायः अनेक श्रावकाः प्रतियोधिताः। श्रीजिनपत्तिसूरिपट्टे जिनेश्वर सूरिः [ तद् ] वारके श्रीपत्तने कुमारपालराजा प्रतियोधकः, श्रीहेमाचार्यः, त्रिकोटीग्रंथकर्ता, अष्टादशदेशेऽपारिघोषणाकारकः, अष्टौ सहस्राः तुरगा गलितजलपानं कुर्वति। तेन राज्ञा हेमाचार्याग्रे प्रोक्तं यदि सुवर्णविद्या भवति तदाहं विक्रमादित्यसंवत्सरं दूरीकृत्य कुमारसंवत्सरं करोमि । हेमाचार्येणोक्तं-खरतरगच्छे श्री हरिभद्रसूरिशिष्यैरानीतं बौद्धपुस्तकमस्ति, तस्य मध्ये सुवर्णसिद्धिविद्यास्ति । ततः सर्वे खरतर श्रावकाः गौर्जरातीयाः सौराष्ट्रीयाः कच्छपांचालाः समुद्रोपकंठीयाः कारागारे क्षिप्ताः । तेषां भूपः शरीरेऽतिव्यथां करोति स्म । तैः श्रावकैमिलित्वा गुरूणां पत्रं मुक्त-वयं युष्माकं श्रावकाः, एष कुमारपालः कदर्थयति । नो येषां रुचि पुस्तकं मोच्यमेव । ततः श्री जिनेश्वरसूरिभिश्चिअकूटे चिंतामणिपार्श्वनाथप्रासादे भांडागारे पुस्तकं निर्वास्य प्रदत्तं । क्रमेणागतं पत्तने । महोत्सवेनानीतं । श्री कुमारपालाद्याः सप्तशतमनुष्याः सश्रीकाः अन्ये पि बहवो जनाः शालायां स्थिताः संति । दृष्टं पुस्तकं हेमाचार्येण । उपरि लिखितमस्ति 'इदं पुस्तकं न छोटनीयं, न वाचनीयं-किंतु भांडागारे पूजनीयं ।' ततः शंकितो मनसि हेमाचार्यों न छोटयति । तदा हेमाचार्यभगिनी हेमश्री महत्तराऽस्ति, तगोक्तं-छोटयंतु । तैरुक्तं-इदं लिखितमस्ति'यः छोटयिष्यति तस्य श्री जिनदत्तसूरीणामाज्ञास्ति' तेन बेभेमि । महत्तरयोक्तं को जिनदत्तः, न कोपि भवदीयसमो गच्छाधिपः । अहं छोटयामि । · कुमारपालेन दत्तं । तया छोटितमात्रे दवरके तत्कालं नेत्रद्वयं पतितं । अन्धा जाता । पुस्तकं भांडागारे मुक्तं । रात्रौ वह्निर्लग्नः सर्वे पुस्तकं प्रज्वलितं । तत्पुस्तकमाकाशमार्गेण बौद्धानां समीपे गतं । श्री जिनेश्वरसूरिपट्टे संवत् १३३१ आसौजवदि ५ दिने जावालपुरे पट्टाभिषेकः श्री जिनप्रतिबोधसूरिः। तद्वारके लघुतर खर गच्छो निर्गतः।। __ श्री जिनसिंहसूरिः। श्रीमालज्ञातीयः। साधिता तेन पद्मावती । तयोक्तं षण्मासावधिरायुरस्ति, नाहं ददामि किंचित् । तेनोक्तं मम मोघं देवदर्शनं । तयोक्तं झूझणूं नगरे तांबी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76