Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 64
________________ ॥ खरतरगच्छ पट्टावली - ३ ॥ तथातथाऽधिकतरा जाता । तदा वेदनापीडितो गुरुचरणयोः पतितः। भवंतः पूज्याः गच्छंतु निजं स्थाननं । पूज्यैरुक्तं यदि सर्वेषां बंदिमोचनं करिष्यसि तदा यामि, नान्यथा । सर्वेपि मोचिताः । अतीव माहात्म्यं जातं । श्रीजिनहंस सूरिवार के श्रीशांतिसागरसूरिभिः प्रतिष्ठा कृता । शिष्यदीक्षायां विरोधो जातः। तत्राचायियो गच्छो निर्गतः । तत्रधाडीवाहा गोत्रे टाटीयाशाखे सा० ठकुरा केन लक्षत्रयद्रव्यदानेन मंडोवरे राजा वशीकृतः । दोसीसाखे श्रीजिनदेवसूरीणां स्थापना कृता । श्रीजिनहंस सूरिपट्टे चोपडा गोत्रे अणहिलपत्तने बलाही देवराजकृतमहोत्सवः संवत् १५८२ वर्षे भाद्रवादि १३ पट्टाभिषेकः श्रीजिनमाणिक्यसूरिः । अनेकशास्त्रवेत्ता । तेन द्वादश पाठकाः स्थापिताः । एकनंद्यां चतुःषष्टि शिष्या दीक्षिताः । सिंधुदेशे सा० धनपतिकृतमहोच्छ्वेन पंचनद्यः साधिताः । तस्य वारके श्रीकन कतिल कोपाध्यायादिभिः क्रियोद्धारः कृतः । श्रीदेराउरे यात्रार्थं गच्छद्भिरेव स्वर्गप्राप्तः । ५६ संवत् १५९५ जन्म, संवत् १६०४ दीक्षा, तत्पट्टे रोहडगोत्रे संवत् १६१२वर्षे भाद्रपद ९ दिने गुरुवारे श्रीजेसलमेरुनगरे राउल श्री मालदेव कृतमहोच्छ्वो भट्टारकः श्रीजिनचंद्रसूरिः स्थापितः। संवत् १६१३वर्षे श्रीविक्रमनगरे चैत्रमासे सप्तमीदिने क्रियोद्वारः कृतः। तेषां चेतेऽवदाताः श्रीफलवर्धीताद्यचैत्यतालकोद्घाटकृत् । पुनः संवत् १३४३ वर्षे ताद्यधर्म्मसागरकृत ग्रंथछेदकृत् । श्रीअकबरसाहिप्रतिबोधकारी । तत्साहिवचसा युगप्रधानपदधारी । संवत् १६५२ वर्षे नानगाकृतमहोत्सवेन पंचनदीनां साधकः । सिंधु १, वहब २, वनाह ३, रावी ४, घाउ ५ इति - पंचनद्यः, तथा स्तंभतीर्थे वर्षं यावत् मीनरक्षाकृत् । श्रीज्येष्ठ पर्वणि सर्वत्राष्टदिनानि यावदमारी प्रवर्तकः । श्रीशत्रुंजयादि तीर्थेषु चैत्यप्रतिमा प्रतिष्ठाकृत् । श्रीविक्रमपुरे ऋषभविबादि - प्रभूतबिंबप्रतिष्ठाकृत् । श्री साहि सलेमराज्ये ताद्यकृत श्रीजिनशासनमालिन्यतः श्रीसाधु विहारो निषिद्धः साहिना । तत्रावसरे श्री उग्रसेनपुरे गत्वा साहिं प्रतिबोध्य च साधूनां विहारः स्थिरीकृतः । तदा लब्धः सवाई युगप्रधान बडागुरुरितिबिरुदो येन गुरुणा । एवमवदाता भूयांसः संति सुप्रसिद्धाः । तेषां निर्वाणं श्री बीलाडापुरे १६७० वर्षे आसूवदि २ दिने । स्थूपस्थापना । तस्य वारके श्रीसागरचंद्रसूरि संतानेऽनुक्रमेण भावहर्षसूरयो निर्गता इति । तत्पट्टे श्री जिनसिंहसूरिः चोपडागोत्री कोटिद्रव्यव्ययेन मंत्रिराज श्रीकर्मचंद्रेण कृतनंदी महोत्सवः श्रीलाभपुरे । नन्निर्वाणं तु मेदनीतटे संवत् १६७४ वर्षे पोसवदि १३ दिने । पट्टे गुरु श्रीजिनराजसूरिः । संवत् १६७४ वर्षे फागुण सुद ७ दिने संघपति श्री आसकर्णेन कृतनंदी महोत्सवः । तस्मिन्नेव दिने श्री जिनसागरसूरीणामाचार्यपदस्थापनेति । कियत् काले निर्वासिताः । श्रीमजिनराजसूरिः तस्य पट्टे विद्यमानगुरुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76