Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली - ३ ॥
पण्डिताच भविष्यन्ति ७ । इति सप्त वराः प्रदत्ताः । योगिनीभिरुक्तं - एकमस्माकमपि वचनं कुरु । यथा भवदीयः पट्टे यः कोऽपि गच्छनायको भविष्यति ढिल्यां अजयमेरौ भरुकच्छे उज्जयिन्यां यद्यायाति तदा भोजनं कृत्वा याति रात्रौ न तिष्ठति । यदि रात्रौ तिष्ठति तदा भोजनं
करोति इति वाक्यं दत्वा गता निजस्थानं । अन्यदा श्रीजिनदत्तसूरयो वडनगरे गताः । तत्र द्विजा बहवोऽतीव द्विषः साधूनाम् । एकदा एका गौः म्रियमाणा जिनचैत्ये प्रवेशिता, सारात्रौ मृता, द्विजा हास्यं कुर्वन्ति - एषां देवा गौघातकाः । तत्र नगरे रीतिः - चाण्डालाः पुरमध्ये नागच्छन्ति, प्रतोलीं यावत् स्वामिनो निकासयन्ति । ततस्ते गृह्णन्ति । मिलिताः सर्वे श्रावकाः परं चैत्यद्वारं लघु, तां निर्वासितुं न कुर्वन्ति । श्रीपूज्यानामुक्तं श्रावकैः - ' एतत् विप्रैः कृतं भवदीर्ष्यया । श्री पूज्याः सुप्ताः, शिष्यानां प्रोक्तं- 'मम वस्त्रं नोद्घाटनीयं चतुर्दिक्षु सप्तस्मरणानि पठनीयानि । परकायप्रवेशिनीविद्याबलेन मृता गौरुत्थिता, जिनगृहात् ईश्वरप्रासादे पिण्डिकाया उपरि पतिता, जन समक्षं महाच्चित्रं जातम् । सर्वे द्विजाश्चरणे पतिताः । स्वामिन् देव गृहाद् गामपनयत । श्री पूज्या न मन्यन्ते ततः सर्वैर्विप्रैर्मिलित्वा इति वचनं कृतं यदा खरतरगच्छाधिपतिर्वडनगरे समेष्यति तदा प्रवेशोत्सवं विप्रा एवं विधास्यन्तीति । रात्रौ धेनुरुत्थाय पुराद्बहिः पतिता । इति परकायप्रवेशिनीविद्या ।
1
५०
अन्यदा गूर्जरधरित्र्यां नागदेवः श्रावकः चित्ते चिन्तयति ' श्रीवीतरागैरुक्तमस्ति सर्वदा एक युगप्रधान भवति । तं वन्देऽहं परं न ज्ञायते । तत्रार्थे सोऽम्बका के श्री गिरनारगिरौ गतः । उपवासत्रयं कृतं प्रत्यक्षा जाताऽम्बिका । तेनोक्तं - कथयास्मिन् काले को युगप्रधान ? | अम्बिकयोक्तं - हस्ते तवाक्षराणि लिखित्वा ददामि । य एतानि प्रकटयिष्यति सत्वया युगप्रधान ज्ञेय इति । तेनोक्तं-हस्तेन कथं भोक्ष्ये ? आशातना भविष्यति देव्योक्तं - न काप्याशातना, याहि त्वं । ततः स पत्तने समेतः । प्रतिशालमाचार्याणां दर्शितो हस्तो । न कोऽपि वाचयति । प्राप्तखेदोऽतीवागतो जिनदत्तसूरिसमीपे नागदेवः । पूज्यानां हस्तो दर्शितः । वासक्षेपः कृतः प्रकटितान्यक्षराणि । यतः
दासानुदासा इव सर्वदेवा यदीयपादाब्जतले लुठन्ति ।
मरुस्थली कल्पतरुः स जीयात् युगप्रधानो जिनदत्तसूरिः ॥
इत्यक्षराणि प्रकटितानि । हर्षितोऽभून्नागदेवः । प्रणति स्म गुरून् । सर्वत्रापि प्रसिद्धिर्युगप्रधानोऽयं । नागदेव वरसावएणं उज्जंतिवडेविण, पुच्छिय जुगगुरु कहउ तिणि उववास करेविण । अंत्रिक हु परतक्खि हत्थि तिण अक्खर लिक्खिय, सोवणमय करि प्रकट सोय आचारिज लक्खिय करि वासखेव अणहिल्लपुरि जुगपहाण संजमतिलउ, जिनदत्तसूरि सुविहितगुरु श्रीखरतरगच्छ गुणनिलउ ॥
अन्यदा श्रीउच्च नगरे जिनदत्तसूरीणां प्रवेशमहोत्सवो जातः, मिलिताः स्वदेश-परदेशीया जनाः । तत्र एको मुलाणापुत्रः सप्तवार्षिकः पतितः चरणप्रहारैर्मृतो । मिलिता म्लेच्छजनाः साधूनामुपाश्रये घोरं विधास्यामः । नगरे महानुपद्रवो जातः । साधवो गंतुं समेतुं च न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76