Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 56
________________ ।। खरतरगच्छ पट्टावली-३ ।। तस्या अग्रे वार्ता प्रोक्ता । सापि गता साहिपार्श्वे एष हस्ती मम भ्राता। अनेन सार्धमहमपि मरिष्यामि । साहिनोक्तं-प्रभाते वैपरीत्यं विधास्यामि, मा कुरु चिन्तां । प्रगे कोमाल्यश्रावकाः सतिलकाः सर्वेऽपि समेताः खरतरा अतिलकाः। पतिसाहिना वभाषे-कपाटं दत्वा ये सतिलकास्ते सर्वेऽपि वध्याः, ये तु अतिलकाः ते न वध्याः। ततः सर्वेऽपि मरणमयेन तिलकमपनीयापनीय हस्तिपृष्टौ लग्नाः। सर्वेऽपि खरतराः सिन्धुमण्डले। तदा गुरुभिहस्तीकस्य अजितशान्तिस्तवो दत्तः । अन्यदा गुरूणां प्रोक्तं मिलित्वा सिन्धुदेशस्थैः श्रावकैः ‘अमास्कं गृहे यथा बहुधनं भवति तथा कर्तव्यं । गुरुभिरुक्तं-नागपुरात् परतो गत्वा मकाणा ग्रामे द्वात्रिंशद गुलप्रमाणं प्रतिमां कारयित्वाऽमुकनक्षत्रेऽमुकलायांच, ततस्तांरुतमध्ये प्रक्षिप्यात्रानरत यूयं परं मार्गेन कस्यापि गृहे भोक्तव्यम् । ततस्तां शुभवेलायां स्थापयिष्यामि । यत्रतत्र लक्ष्मीः स्थास्यति स्वयमिति । ततस्ते तत्र गताः, प्रतिमा कारिता, तेऽन्तरा नागपुरे समेताः । तत्र पुरे शान्तिभूरिनामाचार्यस्तिष्ठति । तेन रात्री लक्ष्मी ऊयभाना कैश्चित् दृया । उत्थित ध्यानेन कञ्चन देवं समायति स्म। सोऽप्यागतः, प्रोचे प्रतिमया साध लक्ष्मीर्याति, जिनदत्तसरिराकर्षति । प्रतिमा अप्रतिष्ठिता स्तीति । प्रभाते तेन श्रावकाणामग्रे प्रोक्तं-एते सिन्धुदेशीया वणिज आयाताः सन्ति तान् सर्वानपि मन्त्र्य भोजयत, यथा लक्ष्मीनागपुरान याति । श्रावकैर्गत्वा ते सर्वेऽपि निमन्त्रिताः भोजिताश्चेति । ततस्तेनाचार्येण रुतमध्यस्थिता प्रतिमा प्रतिष्ठिता अञ्जनशिलाकया तत्रैव रक्षिता, तैः श्रावकैन ज्ञाता तामेव प्रतिमा लात्वा गुरुसमीपे समेताः। गुरुभिरुक्तं-रछोहरीया यथा याताः, किं कृतं, प्रतिमा प्रतिष्ठिता सूरिणा लक्ष्मीस्तत्रैव स्थितेति । तैरुक्तंपुनरन्यमुपायं कथयत, सावधानतया तं करिष्याम इति । गुरुभिः कृपापरैर्भूय उक्त-भटनेर नगरे श्रीमहावीरप्रासादे श्रीमाणिभद्रयक्षप्रतिमास्ति तामानयत । ततश्चत्वारः श्रावकाः व्यापारमिषेण तत्र गताः, नित्यं जिनार्चा कुर्वन्ति । अन्यदा लब्धावसराः प्रतिमां गृहीत्वा निर्गताः। पृष्टतो बाहरिका अपि चलिता ज्ञातव्यतिकराः। क्रमेण सिन्धुदेशे उच्चनगरे रिपडीनद्याः पार्श्वे पञ्चनद्यो वहन्ति, पञ्चनद्योण जलं । तत्र ते समेताः, बाहरका अपि समाजग्मुः । ते प्रतिमां गृहीत्वा नद्यां प्रविष्टाः। ते अपि प्रविष्टाः। तद्भयेन प्रतिमा तैनद्यां मुक्ता । बाहरकाः संशोध्यालभमानाः प्रतिमां गताः परभूमिभिया । तैः समाचारा जिनदत्तसूरीणां निवेदिताः। गुरवोऽपि नद्यां समेताः । आराधितो माणिभद्रः। प्रत्यक्षी भुत्वोवाच-अहमत्रैव स्थास्यामि बहिर्नागच्छामि । अत्रैव स्थितः, सान्निध्यं करिष्यामि । ततः श्रीजिनदत्तसूरि पाचँ माणिभद्रयक्षेण सप्त वरा मार्गिताः। तद्यथा-भट्टारको यः पञ्चनदीः साधयति स सिन्धुमण्डले समेति १। सूरिः सदा सूरिमन्त्रसहस्रप्रमाणं जयेत् २ । सामान्यसाधुः शतत्रयप्रमाणं जपेत् ३ । खरतर श्रावक उभयोः सन्ध्ययोः सप्त स्मरणानि पठति ४ । श्राद्धः प्रतिगृहं द्विशतप्रमाणां क्षिप्रचटीं पठति ५। श्राद्धः प्रतिगृहं आचाम्लद्वयं मासमध्ये करोति ६। पदस्थो यो भवति स एकाशनेन भुञ्जते ॥ तथा श्रीजिनदत्तसूरीणां सप्त वराः प्रदत्ताः माणिक्यभद्रेण । तद्यथा-प्रतिग्रामं श्राद्ध एको मुख्यः सधनश्व भविष्यति १। श्राद्धः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76