Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली-३ ।।
गुरुभिः क्षिप्तः। आगताः साधवः । अहारार्थ मुखवस्त्रिका प्रति लेखयतो गुरोचोलपट्टः स्फाटितो, ज्ञातं गच्छो द्विधा भविष्यति । तदा वारिकरणावसरे त्रयोदशाचायरेक्तं एष बाह्यः कृतोऽस्ति, अस्य दृष्टया आहारो न कर्तव्यो भवद्भिः । गुरुभिरुक्तं-अयं क्षिप्तो मया गच्छे । कुपिता आचार्याः-अद्यैव स्वयं कर्ता जातः । अयोग्योऽयमस्माकं न पृच्छति । समिलित्वा निष्कासितो गुरुर्गच्छात् । ततः पट्टाभिषेककारकस्य श्राद्धस्योक्तं सूरिणा वर्षत्रयं यावत् मम मार्गोऽवलोक्यो भवता, यदि मम माहात्म्यं भवति तदाहमेव भवतो गुरुः, नान्यथेति । त्रिस्थानकेन निर्गतो गुरुः क्रमेण विक्रमपुरे समागतः । तत्र मरकोपद्रवो महान् । जनैः पृष्टा गुरवो, गुरुरूचे-यस्य चत्वारः पुत्राः सन्ति स एकं मह्यं ददातु, यस्य च तिस्रः पुत्र्यः स एकां चेति । तैर्भणितं गत उपद्रवे दास्याम इति । ततो गुरुणा 'तं जयउ' इति नाम स्तवनं कृतं । तन्माहात्म्येन शान्तिर्जाता । तत्रैव पुरे पञ्चशतप्रमाणाः शिष्या जाताः । साध्वीनां त्रिशतं जातम् । सर्वेऽपि श्रावका जाता इति । ततो विहृत्य गुरवो नारनउलपुरे गताः। तत्रेश श्रीमालश्रावकस्य जामाता विवाहसमये एव मरणधर्म प्राप्तः । तेन सार्धं कन्याया अपि काष्टभक्षणं कारयन्ति जनाः । सा भीता गुरूणां पार्थे समेता । तदा गुरुभिरुक्तं पित्रोः 'अयुक्तमेतत् क्रियते'। पितृभ्यामुक्तमावयोनित्यशल्यं भविष्यति । गुरुभिर्गृहीता कोमल्यसाध्वीनां दत्ता 'त्वया एषा पाठ्या।' तस्याः पार्श्वे द्वादश वर्षाणि स्थिता । ततो गुरुभिर्दीक्षिता । तस्या वस्त्रे बढ्यः षटपद्यः पतन्ति । साध्वीभिरुक्तं गुरूणां एषा अतीवाहण्डा एतस्या वस्त्रे पतन्ति यूकाः । गुरुभिरुक्तं एषा सप्तशतसाध्वीनां मुख्या भविष्यति । तदैव तस्याः साध्व्याः सर्वाः शिक्षिणात्वेन दत्ताः, महत्तरापदं च दत्तं । कोमल्यसाच्या सा महत्तरा पृष्टा त्वयास्माकं किमपि कथनं करणीयं, अस्माभिस्त्वं पाठिता। तयोक्त्तं-बदत किंकरोमि । ताभिरूचे-धर्म ध्वजे दशाकाः प्रलम्बाः कार्या इति । प्रतिपन्नं तद्वचः, अद्यापि तथैव जायते इति । तदा गुरूणामतीव माहात्म्यं वर्धते स्म । आचार्यैः पुनर्गच्छे समानीता गुरवः। सर्वेऽपि साधवो गुर्वाज्ञायां प्रवर्तते स्म । ततस्तेभ्य एक आचार्यों नितो रुद्रपल्लीयगच्छो जातः । अन्यदा जिनदत्तसूरय सिन्धुदेशं प्राप्ताः। तत्र मूलत्राणे चतुर्मासं स्थिताः। तत्र कोमल्यगच्छीयाः श्रावकाः महर्द्धिकाः, खरतराः सामान्याः। तैरुक्तं खरतराणां महत्त्वपातकं करोमि (कुर्मः )। तदा हाथी इति नामा लूणियागोत्रीयः श्रावकः सामान्योऽस्ति । अथ यदा धर्मदेशनावसरे हाथी श्रावकः समागच्छति तदा श्रीजिनदत्तसूरिः प्रभूतं सत्कारं ददाति । अन्ये श्रावका: कथयन्ति-किमर्थमस्य बहु सत्कारं दत्थ । गुरुभिरुक्तं-एप हस्ती राजद्वारे शोभते । महति कार्ये समेष्यत्यसौ । अन्यदा कोमल्यश्रावकैबहु धनं दत्वा पातिसाहिर्वशीकृतः, कथितं च तैः खरतराणां शिरच्छेदं कुरु । साहिनोक्तं--कथं ज्ञास्यन्ति खरतराः, कथं च भवन्तः । तैरुक्तं ये कोमल्यास्ते तिलकं विधाय मस्तके समेष्यन्ति, ये तु तिलकवर्जितास्ते खरतरा इति। तां वातां श्रुत्वा हस्ती रात्रौ गुरुसमीपे समेतो वार्ता चोक्ता । गुरुणोक्तं-त्वं याहि बीबीपार्श्वे सुन्दरं भविष्यति । सोऽपि बीबीपार्श्वे गत्वोवाच झगिति । ममाघ मरणं, तेनाहं मिलनाय समेतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76