Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 54
________________ ॥ खरतरगच्छ पट्टावली-३ ॥ अन्यदा चित्रकूटे कच्चोलाक्षा आचार्याः सन्ति, तेषां शिष्यो वल्लभाभिधः। स तु अत्यन्तसंवेगी परं सर्वशास्त्राणि अधीतानि । यः कोऽपि नवीनः पण्डित आगच्छति तस्य वादेन जित्वा स्वर्णकचोलकं गृह्णाति, तेन भोजनं करोति, तेन नाना कचोलवृक्षाभिधः । अन्यदापडीगणार्थ आचार्या ग्रामंगताः। वल्लभस्योक्तं सर्व पुस्तकं तवायत्तमस्ति परमेषा अपवरिका नोद्घाख्या । ततस्तेन सेवकान्ते दृष्टा । एकादशाङ्गानि वाचितानि । ज्ञातः साधुमार्गः । गुरुणा पृष्टं, सिद्धान्तकारणकथितं, यतिरहं भवामि भवदाज्ञया। ततो दत्तादेशः खरतरगच्छे श्रीअभयदेवसूरिपार्थे दीक्षा गृहीता । अत्यन्तवैराग्यवान् जातः । श्रीअभयदेवसूरिभिः अन्त्यसमये प्रोक्तं-वल्लभस्य पदं देयं । नतो गच्छवासिनः पदं न प्रयच्छन्ति, कोमल्योयं न विश्वासोऽस्य । एकदा त्रिस्थानको गुरुः चित्रकूटे गतः। चामुण्डाप्रसादे स्थितः। शिष्यमेकं मुक्त्वा स्वयमाहारार्थ गतः। पश्चात् शिष्येण चामुण्डाअक्षिणी उत्पाटिते क्रीडया, शिष्य अंधो जातः । आगतो गुरुः, शिष्येण प्रवृत्तिरुक्ता । तत्रैव स्थित्वा एकविंशतिकाव्यैश्चामुण्डा प्रतिबोधिता। शिष्यः सजीकृतः। देव्या हिंसा त्यक्ता, गुरोर्महान् लाभो जात इति। तथा बागडदेशे श्रावका बहवो प्रतिबोधिताः-दशसहस्र प्रमाणाः । संघपट्टनामा ग्रन्थो विहितः लघुर्वृद्धोऽपि। पिण्डविशुद्धिनाम शास्त्रं कृतं । शुद्धमार्गः प्ररूपितः। वर्ष १२ यावत् आचार्गच्छो निर्वाहितः, तदा मधुकरखरतरगच्छो निगतः। सौराष्ट्रदेशे प्रसिद्धः। चिन्तामणिपार्श्वनाथनासादे प्रशस्ति-काव्याष्टकं लिखितमस्ति । तथा 'भावारिवारण' स्तवनं निजनामरहितं कृतं । चित्रवालगच्छनायकेन गृहीतं । चत्रकूटे चैत्यनिर्णये जाते चरणे पतितः ततो निजनामस्तोत्रे समानीतं । षण्मासायुषि पट्टो दत्तः। संवत् ११६७ वर्षे आसाढवदि ६ दिने पट्टे स्थापना श्रीदेवभद्रसूरिणा कृता श्रीचित्रकूटे। ततो मृत्युअवसरे गच्छेषु गवेषितो वाचनाचार्य जयदेवशिष्यः जिनदत्ताभिधः हुंबडज्ञातीयः पट्टार्थे । श्रीजिनवल्लभः स्वर्गतः । ततः श्रीसंघेन समाकारितः श्रीजिनदत्तः सर्व शास्त्रवेत्ता मार्गे आगच्छन् सारंगपुरे एकः कोमल्यौपाध्यायस्तस्य शिष्याः सन्ति परमतीव मन्दमतयः, पाठकस्य तदा मरणावस्था समेता, कोऽपि नाराधनाकारकस्तादृग् विद्वान्, तदा तं तथाविधं समालोक्य ज्ञातमरणो जिनदत्तः करुणापरो धर्ममनशनलक्षणं तस्मै ददौ । सोऽपि दिनत्रयमनशनं प्रतिपाल्य महधिको देवोऽभूत् । तेन जिनदत्तोपकारं स्मरता रात्रौ प्रत्यक्ष समेत्याचे तव सान्निध्यं सर्वदा करिष्यामि। परं तव पट्टाभिषेको मुहूर्तत्रयं गवेषितमस्ति, प्रथमे षण्मासे मृत्युः, द्वितीये गच्छस्फोटो भविप्यति, तव गच्छानिष्कासनं; तृतीये सुंदरं भावीति । परमियं प्रवृत्तिर्मम न कस्याप्यग्रे वाच्या। ततः समागतो जिनदत्तः प्रथाममुहूर्ते कायोत्सर्गे स्थितः । वेला व्यतीता । द्वितीयेऽपि कायोत्सर्गः समारब्धः साधुश्रावकैनिषिद्धः। ततो द्वितीये मुहूर्ते स्थापितः। संवत् ११६९ वर्षे वैशाख सुदि १० दिने सन्ध्यालग्ने श्रीदेवभद्रमूरिणा, चित्रकूटे श्रीमहावीरभवने, नाम श्री जिनदत्तसूरिरिति जातं । सर्वेऽपि साधवः स्वीयस्थाने गताः। इतश्चैको महात्मा श्रीजिनवल्लभेन गच्छानिष्कासितोऽभूत, असह्यप्रतिक्रमणापराधेन । स तदा समागतः ममोपरि कृपां कुरुत । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76