Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली -२ ॥
प्रतिष्ठाद्वयविधानसंघभक्तिकरणादौ षट्त्रिंशत्सहस्र ( ३६००० ) रूपकानि व्ययी भूतानि । ततश्च मुनिसुव्रतस्वामियात्रार्थं भृगुकच्छे समागताः । तत्र रात्रौ रेवातटे योगिनी कृत महाघनवृष्टयुपद्रवेण व्याकुलीभूतं सर्वसार्थं स्वष्टदेवस्मरणेन निराकुलं कृतवंतः । ततां राजनगर भावनगरादौ विहृत्य घोघावंदरे नवखंडपार्श्वयात्रां विधाय पादलितपुरे समागताः । तत्र सं० १८३० माघवदि ५, पंचसप्ततिमुनिभिः सार्द्ध श्रीशत्रुंजययात्रां कुर्वति स्म । ततो जीर्णगढमागत्य सं० १८३० फा० सु०९ पंचाधिकैकशत (१०५) साधुभिः सह श्री गिरनार मंडन भिजिनयात्रामकुर्वन् । ततो वेलाकूलपत्तन - नव्यनगरादिषु विहृत्य कच्छदेशे मांडवीबि - दरे श्रीगुरुपदकमलस्थापनां वंदित्वा क्रमेण तद्देशाद्विहृत्य राउपुरनगरे श्री चिन्तामणिपार्श्वेशमभिवंद्य सं० १८३३ मिति चैत्र वदि द्वितीयायां श्री गौडीपार्श्वयात्रां चकुः । एवंविधाः परम सौभाग्यादिसद्गुणश्रेणिधारिणो महोपकारिणः श्रीजिनलाभसूरयः सं० १८३४ मिति आश्विन वदि १० श्री गूढानगरे स्वर्ग गताः ॥ ६७ ॥
૨૮
६९. तत्पट्टे श्रीजिनचंद्रसूरयः । तेषां च वीकानेरवास्तव्य वच्छावतमुंहता रूपचंद्र पिता, केसरदेवी माता, सं० १८०९ कल्याणसरग्रामे जन्म, अनूपचंद्रेति मूलनाम । सं० १८२२ मंडोवरे पुरे दीक्षा, दयासार इति दीक्षानाम । सं० १८३४ आश्विन वदित्रयोदश्यां सोमे शुभलग्ने गूढानगरे कूकडचोपडागोत्रीय दोसी लक्खासाहकृतोत्सवेन सूरिपदं जातं । ततस्तेगणाधीश्वरा महेवादिपुरेषु चैत्यान्यभिवंद्य श्रीगोडीपार्श्वशं नत्वा क्रमेण जेसलमेरुवीकानेरादिषु चिन्तामणि पार्श्वनाथादि देवयात्रां कृतवंतः । तत्र जेसलमेरौ आवश्यकादि - योगक्रियां च विहितवंतः । ततोऽ योध्या कासी : चंद्रावती पाटलीपुत्र चंपा मकसूदावाद संमेतसिखर पावापुरी राजगृह मिथिला दुतारापार्श्वनाथ क्षत्रिकुंडग्राम काकंदी हस्तिनागपुरादियात्रां व्यधुः । तदानीं पूर्व देशे श्रीलक्ष्याउनगरे नाहटागोत्रीयः सुश्रावको राजा वच्छराजाख्यश्चतुर्मास कत्रयं महोत्सवेन कारितवान् । तत्र बहुविस्तृतः प्रतिमोत्थापक - निन्हवमार्गः श्रीपूज्यैः स्वज्ञानबलेन निराकृतः, बहवः श्राद्धाः सन्मार्ग नीताः । श्रीपूज्यानां सुतरां महिमा प्रससार । तन्नगरासनोद्याने राज्ञा श्रीजिनकुशलसूरीणां स्तूपः कारितस्ततोविहृत्य श्रीगिरनारशत्रुंजयतीर्थयोर्यात्रां व्यधुः । तत्र पादलिप्सपुरे परपक्षीयैः सार्द्धं महान् विवादः समजनि; परं श्रीदेवगुरुप्रसादाज्जयप्राप्तिर्जाता, परपक्षीयाः पराजयं प्राप्य पलायितास्तदा तत्रत्य नृप। दिभिर्वहुमानकरणात्पूज्यानां महिमा सर्वत्र सुतरां विस्तृतवान् । ततो वर्षानंतरं मोरवाडाभिधग्रामे श्रीगौडी पार्श्वेश यात्रार्थमागते साधिक लक्ष मनुष्यात्मक श्रीसंघे तत्रत्यामात्यादि प्रधानपुरुषवचनाद् द्वयोभट्टारकयोः परस्परमेलः संजातः । ततो दक्षिणदेशेऽन्तरिक्षपार्श्वेशयात्रां कृत्वा श्रीसूरत बिंदरे सं० १८५६ ज्ये० सु० ३ स्वर्गं गताः । एवंविधाः परमसौभाग्यधारिणः सकलजन्मनोहारिणः सर्वसिद्धान्ताध्ययनकारिणः सर्वत्र विख्यातकीर्तिभरा जंगमयुगप्रवराः श्रीबृहत्खरतर गच्छेश्वराः वाग्जितसुरेंद्रसूरयः श्रीजिनचंद्रसूरयः संजाताः ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76