Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
।। खरतरगच्छ पट्टावली - २ ।।
३९
गांभीर्यादिगुणग्रामवेश्मनां शुद्धचेतसां । श्रीजिनलाभसूरीणामाज्ञामादाय शोभनां ॥ १ ॥ श्रीजिनभक्तिसूरीन्द्रशिष्या बुद्धिवार्द्धयः । प्रीतिसागरनामानस्तच्छिष्या वाचकोत्तमाः ॥ २ ॥ श्रीमंतोऽमृतधर्माख्यास्तेषां शिष्येण धीमता । क्षमाकल्याणमुनिना शुद्धिसंपत्तिसिद्धये ॥ ३ ॥ संवत्सरे व्योमकुशानु सिद्धि क्षोणी (१८३०) मिते फाल्गुन मास रम्ये । विशुद्धपक्षे लिखिता नवम्यां गुरुस्तुतिर्जीर्णगढे नवासौ ॥ इति श्रेयः ॥ [ अनुपूर्तिः ]
७०. तत्पट्टे श्रीजिनहर्षसूरयः । तेषां वालेवाग्रामे जन्म, हीरचंद्रेति मूलनाम, मीठडियावुहिरागोत्रीय साह तिलोकचंद्रः पिता, तारादेवी माता । सं० १८४१ आऊग्रामे दीक्षा, हितरंग इति दीक्षानाम; सं० १८५६ ज्ये० सु० १५ श्रीसूरतविंदरे श्रीसंघकृतोत्सवेन सूरिपदं जातं । श्रीजिनहर्षसूरिरितिनाम विहितं । तदा तस्मिन्नगरे श्रीसंघेन चैत्यबिंब प्रतिष्ठा करापिता । तथा सं० १८६० अक्षयतृतीयायां तिथौ देवीकोटवास्तव्य श्रीसंघकारित देवगृहे सार्द्ध शतबिंबानां प्रतिष्ठा व्यधायि । तथा पुनर्जालोरनगरे मंत्रि अषयराजकारित देवगृहे प्रतिष्ठा निर्मिता । तथा सं० १८६६ चै० मुदि १५ गिडीयासंघपति राजाराम लुणीया गोत्रीय साह तिलोकचंद कृत संधे सपाद लक्ष श्राद्धैः एकादश शतसाधुभिः सह श्रीगिरनार - पुंडरीकादी यात्रामकुर्वन् । ततो गुरवः अनेक देशेषु विहृत्य सं० १८७० शिखरगिरिराज तीर्थस्य यात्रां चक्रुः । पुनरपि सं० १८७६ श्रीसंघेन सह शिखरागेरियात्रां चक्रुः । ततः पश्चाद् दक्षिणदेशे अंतरीक पार्श्वनाथ, मगसी पार्श्वनाथ, धुलेवगढ इत्यादि तीर्थयात्रां कुर्वता सं० १८८७ आषाढ सुदि १० तिथौ श्रीवीकानेरे श्रीसीमंधरस्वामिमंदिरे पंचविंशति बिंबानां प्रतिष्ठा निर्मिता । सं० १८८९ मा० सु० १० तिथौ श्रीवीकानेरे सेठियागोत्र साह अमीचंद कारित सम्मेतशिखर गिरिभावविराजितमंदिरस्य प्रतिष्टा विहिता । तस्मिन्नवसरे जेसलमेरवास्तव्य वाफणा साहवाहदरमल्ल जोरावर मल्लकस्य हृदये सिद्धाचलगिरियात्राविचारो बभूव । मनसीति विचारः स मुत्पन्नः - यः सिद्धाचलगिरिं स्पृशति तस्य जीवितं सफलं भवति' इति विचार्य सर्व परिवारेण सह विक्रमपुरे आगताः, महामहोत्सवेन बहुद्रव्यव्ययेन गुरवः वंदिताः, सप्तस्थानेषु बहु द्रव्यं दत्तं, तदा सर्वसाधून् प्रति बहु वस्त्राण्यर्पितानि । तदा गुरवः श्रीसंघेन सह सिद्धाचलगिरियात्रां प्रतिचेलुः। अंतराले वर्षाकालस्समागतः । तदा गुरवः मंडोवरे चतुर्मास्यां स्थिताः । एवं विधाः जितानेकवादिनः जिनशासनोद्योतकराः गुरवस्तत्र मंडोवरे सं० १८९२ का० व० ९ चतुः प्रहराणि यावदनशनं प्रपाल्य स्वर्गगताः ॥
७१. तत्पट्टे एक सप्ततितमाः श्रीजिनसौभाग्यसूरयः । तेषां च मारवाडवास्तव्य स्वाई सेरडाग्रामे सं० १८६२ जन्म, सुरतरामेति मूलनाम, गणधर चोपडा कोठारी गोत्रीय साह करमचंदः पिता, करुणा देवीमाता, सं० १८७७ सिंघिया दोलतरावकस्य लस्करे दीक्षा शौभाग्यविशा - लेति दीक्षानाम, सं० १८९२ मार्गशीर्ष शुक्ल सतम्यां गुरुवारे शुभलग्ने श्रीमद्विक्रमनगरे खजानची साह लालचंद सालमसिंह कृतनंदी महोत्सवेन सूरिपदं जातं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76