Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥खरतरगच्छ पट्टावली॥
[३] अथ पट्टावली लिख्यते । प्रथमं श्रीउद्योतनसूरिः। सुविहितचक्ररूडामणिरुत्कृटक्रियाकर्ता जिनशासनसाधुमार्गप्रकाशको बभूव । एकदा मालवदेशात् बहुश्रीसङ्घसहितैः श्रीशत्रुञ्जयतीर्थयात्रार्थ गच्छद्भिर्मध्यरात्री आकाशे रोहिणीशकटमध्ये बृहस्पतिः प्रविष्टो दृष्टः । श्रीसरिभिरुक्तं 'यदि साम्प्रतं सूरिपदं यस्य दीयते स गच्छाधिपतिर्महान् भावी, गच्छस्य वृद्धि प्रामोति; गवेषिताः साधवः परं पार्श्वे नोपलभ्यते'। तदा गणेशेनोक्तं भवच्छिष्यो वृद्धाख्योऽ स्ति तस्य दीयतां यदि वेलामाहात्म्यमस्ति अयमपि भाग्याधिको भविष्यति । वासो नास्ति । गोछगणकचूर्णेन लुंकडीयावडवृक्षाधः स्थापितो वर्धमानसूरिः श्रीउद्योतनसूरिभिः। क्रमेणाथ श्रीवर्धमानसूरयो बहुपरिवारा जाताः। तस्मिन्नवसरे विमलदण्डनायकेन गुर्जरराज्ञा सम्मानितेनार्बुदाचलधरित्र्यां आरासननगरे अम्बायाः कुलदेव्याः प्रासादः कारितस्तत्रागम्य स्वमे देव्या दर्शनं दत्तं । खड्गं गृहाणेत्युक्त्वा रुप्यत्रम्बकषानी दर्शते च तया । ततस्तेन महत् सैन्य कृत्वा देवीमाहात्म्येन चतुर्विंशति देशा गृहीताः। छत्राणि अग्रे ताड्यन्ते वणिककुलत्वात शीर्षे न स्थाप्यन्ते तस्येति । सौराष्ट्रादिमहादेशेषु प्रोढाज्ञा प्रतिपालयन बहुकालं निनाय । सः अन्यदाऽर्बुदाचलेऽगात् श्रीभार्यासुप्रभातपुत्राभ्यां साधं । शुभस्थानमालोक्य श्रीः प्रोचे विमल स्वामिन्नत्र स्थले चेत् जिनप्रासादः कार्यः ते तदा महान् लाभो भवति । द्विजाः पृष्टाः प्रोचुरिदमस्मदीयं तीर्थ न कदाचिज्जैनतीर्थमत्रासीत् । इत्युक्त्वा विमहान् कलिः प्रारब्धः, मरणाय बहवो ब्राह्मणा उद्यता जाताः। तस्मिन्नवसरे श्रीवर्धमानसूरयः समेताः विमलेन वन्दिताः पृष्टाश्च, भगवन् अत्र जैनं चैत्यं नास्ति अहं तत् चैत्यं कारयामि । परं विगैरेतादृशं कर्म प्रारब्धं किं क्रियते । अत्रचेत् जिनप्रतिमा निर्गच्छति तदा एते यान्ति । ततः श्रीसूरिभिः सपादकोटि सरिमन्त्रजापेन धरणेन्द्रं समाहूय तस्याग्रे वार्ता उवता, तेन त्वरितमेव श्रीआदिनाथप्रतिमा धनुःपञ्चाशादधःस्थाद्दर्शिता । अत्र तीर्थंकरप्रतिमासीत् इत्युक्त्वा ततो विमलेन सर्वे द्विजा मेलिताः। यत्रेयं मालापतति ततोऽधो जिनप्रतिमा । क्रमेण नि:सृता जिनप्रतिमा । द्विजाः प्रोचुर्भवदीयं तीर्थ पुरासीत् परमधुनास्माभिः गृहीतं । महीं मौल्येन दास्याम इति । कृपालुना विमलेन मधुकरीभिर्धरा पूरिता अन्तरालधरा तिष्ठति सापि पूरिता, पञ्चकं तत्र जातं विमलेन हठात चिन्तितं सर्वोऽप्ययं गिरिर्मया स्वर्णमुद्रया गृहीप्यते । द्विजैराचिन्ति तीर्थमस्मदीयं सर्व यास्यतीति विचिन्त्य स्तोकैव बरा दत्ता । तत्र महान् श्रीआदिनाथप्रासादः कारितः । अथैकदा श्रीसूरयः सरस्वतीपत्तने जग्मुः। शालायां स्थिताः स्वशिष्यान् तर्क पाठयन्ति। तदा जिनेश्वरबुद्धिसागरी विौ श्रुत्वा तर्कशालायां समेतौ । वादः कृतः गुरुभिर्दयाधर्मो व्याख्यातः। ताभ्यामूचे दयावन्तो विप्रा एव । सूरिभिरुक्तं न विप्रेषु दया प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76