Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
।। खरतरगच्छ पट्टावली-२॥ (४८) वर्षाणि सूरिपदे-सर्वायुः षण्णवति (९६) वर्षाणि प्रपाल्य वीरात् त्रयोदशाधिकवर्षशतत्रये (३१३) व्यतीते स्वर्गभाग जातः । तत एव अस्माकं संप्रदायः 'कोटिकगच्छः' इति प्रसिद्धः।
१३. सुस्थितसूरिपट्टे इन्द्रदिन्नसूरिः १४. तत्पट्टे श्रीदिनसूरिः। १५. तत्पढे श्रीसिंहगिरिर्जातिस्मरणज्ञानवान् ।
-अत्रान्तरे पादलिप्ताचार्यो वृद्धवादिसूरिश्च बभुवतुः, तथा सिद्धसेनदिवाकरोऽप्यासीत्, येन उजायन्यां महाकालप्रासादे रुद्रलिङ्गं स्फोटयित्वा कल्याणमन्दिरस्तवेन पार्श्वनाथबिम्ब प्रकटीकृतम् । विक्रमादित्यश्च प्रतिबोधितः । विक्रमराज्यं तु श्रीवीरात् सप्तत्यधिकवर्षशतचतुष्टये (४७०) व्यतीते संजातम् । विक्रमादित्यराजा वीरात् (४७०) वर्षे जातः ।
१६.तत्पद्वे श्रीवत्रस्वामी,यो बाल्यादपि जातिस्मरणभाक्,गौतमगोत्रीयः,तुम्बवनग्रामवासी धनगिरि-सुनन्दयोः पुत्रः, श्रीसिंहगिरिसूरीणां हस्ताद् दीक्षां गृहीत्वा, तत्पाघे एकादशाङ्गानि अधीत्य, द्वादशस्य दृष्टिवादाङ्गस्य अध्ययनाय दशपुराद् उज्जयिन्यां श्रीभद्रगुप्ताचार्यसमीपं ययौ। तत्र गुरुभिर्दश पूर्वाणि पाठितानि । पुनर्य आकाशगामिविद्यया संघरक्षाकृत, दक्षिणस्यां दिशि बौद्धराज्ये जिनेन्द्रपूजानिमित्तं पुष्पाद्यानयनेन प्रवचनप्रभावनाकृत, देवाऽभिवन्दितः, दशपूर्वविदामपश्चिमः, तथा षण्णवत्यधिकचतुश्शत (४९६) वर्षान्ते जातः, अष्टौ वर्षाणि गृहे, चतुश्चत्वारिंशद्(४४)वर्षाणि सामान्यव्रते, षट्त्रिंशद् (३६) वर्षाणि सूरिपदे-सर्वायुरष्टाशीति (८८) वर्षाणि प्रपाल्य श्रीवीरात् चतुरशीतिअधिकपञ्चशत (५८४)वर्षान्ते स्वर्गभाक् । इतो पजशाखा संजाता। तथा वज्रस्वामितो दशपूर्व-चतुर्थसंहननादिव्युच्छेदः।।
-अत्र श्रीवीरात् (५४४) वर्षे रोहगुप्तात् त्रैराशिकः षष्ठो निह्नवो जातः ।
-तथा वीरात् सपादपञ्चशतवर्षातिक्रमे (५२५) शत्रुञ्जयोच्छेदो जातः, ततःसप्तत्यधिकपश्चशत (५७०) वषैर्जावडोद्धारोऽभूत् ।
१७. तत्पट्टे श्रीवज्रसेनाचार्यः,स च उत्कोशिकगोत्रीयः। एकदा द्वादशदुर्भिक्षान्ते श्रीवज्रस्वामिवचनात् सोपारके गत्वा जिनदत्तश्रेष्ठी, तद्भार्या ईश्वरीनाम्नी, तया लक्षमूल्येन धान्यमानीय पाकार्थमग्नौ स्थापितायां हण्डिकायां विषनिक्षेपं क्रियमाणं दृष्टा, 'प्रातः सुकालो भावी' इत्युक्त्या विषनिक्षेपं निवार्य नागेन्द्र-चन्द्र-निर्वृति-विद्याधर-नामकश्चितुरः सकुटुम्बानिभ्यपुत्रान् प्रवाजितवान् । तेभ्यश्च स्वस्वनामाङ्कितानि चत्वारि कुलानि जातानि। स श्रीवज्रसेनरिः प्रान्ते चन्द्रमुनि स्वपदे निश्य, अनशनं च विधाय स्वर्गभाक् ।
१८.तत्पद्वे श्रीचन्द्रसूरिः,स च सप्तत्रिंश (३७)वर्षाणि गृहे,त्रयोविंशति(२३)वर्षाणिसामन्यवते, सप्त (७) वर्षाणि सूरिपदे-सर्वायुः सप्तपष्टिवर्षाणि(६७)प्रपाल्य स्वर्गभाक् । इतश्चान्द्रकुलमिति प्रसिद्धम्, अत एवाऽस्माकं गच्छेऽधुनाऽपि बृहद्दीक्षावसरे "अम्हाणं कोडिओ गणो, वयरी साहा, चो कुलं, अमुगगणनायगा, अमुगमहोज्झाया संति, महत्तरा नस्थि' इति पाठं नवीनशिष्य प्रति आचार्यशार्थस्थिता वृद्धाः श्रावन्ति ' इति संप्रदायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76