Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली-२ ।।
व्यन्तरीभूताऽविनीतनिज-बन्धुवराहमिहिरकृतसंघोपद्रवनिवारणार्थमुपसर्गहरस्तोत्रकरणेन प्रवचनस्य महोपकारकृत्, तथा पुनश्चतुर्दशपूर्ववित्, कल्पसूत्र-आवश्यकनियुक्त्यादिप्रभूतग्रन्थकारसंजातः। स च पञ्चचत्वारिंशद् (४५)वर्षाणि गृहे, सप्तदश (१७) वर्षाणि सामान्यव्रते, चतुर्दश १४ वर्षाणि युगप्रधानत्वे स्थित्वा-सर्वायुः पट्सप्तति (७६) वर्षाणि प्रपाल्य वीरात् सप्तत्यधिकैकशत (१७०) वर्षव्यतिक्रमे स्वर्गभाक् ।।
. ९. तत्पट्टे नवमः स्थूलभद्रस्वामी, स च पाटलिपुत्रनगरे नवमनन्दसूपस्य मन्त्री शकडालः, भार्या लाछलदेवी, तयोः पुत्रः, गौतमगोत्रीयः, कोश्याप्रतिबोधकः, सर्वजनप्रसिद्धः, चतुर्दशपूर्वविदां चरमः, तत्र दश पूर्वाणि वस्तुद्वयेन न्यूनानि सूत्रतोऽर्थतश्च पपाठ, अन्त्यानि चत्वारि पूर्वाणि तु सूत्रतएव अधीतवान् नाऽथतः, इति वृद्धवादः। स त्रिंशद (३०)वर्षाणि गृहे, विंशति (२०) वर्षाणि सामान्यव्रते, एकोनपञ्चाशद् (४९) वर्षाणि सूरिपदे स्थित्वा-नवनवति (९९) वर्षाणि सर्वायुः प्रपाल्य वीराद् एकोनविंशत्यधिकद्विशतवर्षेः (२१९) स्वर्ग प्राप्तः।।
-अनान्तरे वीरनिर्वाणात् चतुर्दशाधिकद्विशत (२१४) वर्षेः आषाढाचार्याद् अव्यक्तनामा तृतीयो निहनवो जातः । तथा विंशत्यधिकद्विशत (२२०) वर्षैरश्वमित्रात् सामुच्छेदिकनामा चतुर्थो निहनवः। तथा पुनरष्टाविंशतिअधिकद्विशत (२२८) वर्षेः गङ्गनामा एकस्मिन समयेऽनेकक्रियोपयोगवादी पञ्चमो निहनवोऽभूत् ।
१०. तत्पट्टे दशम आर्यमहागिरिः, एलापत्यगोत्रीयो जिनकल्पिकतूलनामारूढः, पुनस्त्रिंशद (३०) वर्षाणि गृहे, चत्वारिंशद् (४०) वर्षाणि सामान्यव्रते, त्रिंशद् (३०) वर्षाणि सूरिपदेसर्वायुर्वर्षशतं (१००) प्रपाल्य स्वर्गभाक् ।
११. तत्पट्टे आर्य हस्तिसूरिः। वासिष्ठगोत्रीयः। तेन किल पूर्वभवे द्रमकीभूतः संप्रतिजीवः प्रव्राज्य त्रिखण्डाधिपतित्वं प्रापितः, येन संप्रतिना श्रीवीरात् पञ्चत्रिंशाधिकद्विशतवर्षे राजपदं प्राप्य सपादलक्षप्रतिमा-नवीनजिनप्रासादाः कारिताः, सपादकोटिबिम्बानि कारयित्वा प्रतिष्ठापितानि, त्रयोदशसहस्रप्रमितजीर्णोद्धाराः कारिताः, पञ्चनवतिसहस्रप्रमाणाः पित्तलकाः प्रतिमा कारिताः, सप्तशतानि सत्रागारा मण्डिताः, द्विसहस्रप्रमिता धर्मशालाः कारिताः, पुनर्यः प्रतिदिन नवीनोत्पादितैकचैत्यवर्धापनिका श्रुत्वा दन्तधावनं कृतवान् । किं. नोक्तेन, यस्त्रिखण्डामपि मेदिनीं जिनगृहप्रतिमादिभिर्मण्डितामकरोत् । तथा साधुवेषधारिनिजकिंकरजनप्रेषणेन अनार्यदेशेऽपि साधुविहारं कारितवान् । श्रीश्रेणिकस्य राज्ञः सप्तदशे पट्टे संजातः । तथा श्रीगुरुभिरन्येऽपि अवन्तीसुकुमालाद्या बहवो भव्याः प्रतिबोधिताः। ते च गुरवः त्रिंशद् (३०) वर्षाणि गृहे, चतुर्विशति (२४) सामान्यत्रते, षट्चत्वारिंश (४६) वपोणि सूरिपदे-सर्वायुरेक वर्षशतं (१००) प्रपाल्य श्रीवीरात् पञ्चपष्टयधिकवर्षशतद्वये (२६५) व्यतिक्रान्ते स्वर्गभाजो जाताः।
१२. श्रीआर्यसुहस्तिपट्टे श्रीसुस्थितरिः, स च कोटिशः सूरिमन्त्रजापात् 'कोटिकः,' पुनः काकन्यां नगर्या जातत्वात् ' काकन्दिकः ' इति विरुदप्रायं विशेषणद्वयम् । तथा व्याघापत्यगोत्रायः, स च एकत्रिंशद (३१) वर्षाणि गृहे, सप्तदश (१७)वर्षाणि सामान्यग्रते, अष्टचत्वारिंशदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76