Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 39
________________ || खरतरगच्छ पट्टावली -२ ।। ५१. तत्पट्टे एकपंचाशत्तमः श्रीजिनपद्मसूरिः । तस्य च छाजहडवंशविभूषणस्य सं० १३८९ जेष्ट सुदि पष्ट्यां श्री देराउरपुरे साह हरपालेन नंदिमहोत्सवः कृतः । तदा अष्टमे वर्षे तरुणप्रभाचार्येण सूरिमंत्रो दत्तः । अथैकदा श्रीगुरुर्बाडमेरुनगरे श्री वीर - प्रासादे देववंदनार्थं आजग्मे, तदा देवगृहस्य लघु द्वारं महती च प्रतिमां विलोक्य, पंजाबदेशोत्पन्नत्वात्तद्देशभाषया प्रोक्तं- ' चूहा नंदा वसही बड्डी अंदर क्युं माणीति अथेग् वचनैः प्रकटितवालभावं, श्रीगुरुं प्रति पार्श्वस्थितेन विवेकसमुद्रोपाध्यायेन मौंन कुरु, इति प्रोक्तं; ततो व्याख्यानादि स्थितिं प्रवर्त्तयता तेनोपाध्यायेन सार्द्ध श्री गुरवो गुर्जरदेशे आगताः, तत्र पाटणपार्श्वे सरस्वती नदीतटे रात्रौ स्थिताः परं तदानीं गुरुचेतसि इयं चिंता समुत्पन्ना -' प्रभाते संघाग्रेऽनया भाषया कथं व्याख्यानं करिष्ये' अथैवं चिंतयतां गुरूणां भाग्येन अर्धरात्रसमये सरस्वतीनद्या अधिष्ठायिका सरस्वती देवी प्रादुर्भूय इत्थं वरं दत्तवती - 'भो स्वामिन् ! प्रभाते त्वं संघाग्रे यत् किमपि वक्ष्यसि तद्वचः सकलजनमनोहारि भविष्यति । ततः प्रभाते समस्तसंघाग्रे श्री गुरुभिः स्वयमेव “ अर्हतो भगवंत इंद्रमहिता ” इत्यादि नवीनोत्पादित काव्येन उपदेशो दत्तः तदा समस्तोपि संघो श्री गुरुवाग्विलासश्रवणेन रंजितमना संजातः । तत्र गुरुभिः “ बालधवलकूर्चाल सरस्वती ” बिरुदं प्राप्तम् । एवंविधाः श्री जिनपद्मसूरयः सं० १४०० वैशाख सुदि चतुर्दश्यां पाटण नगरे स्वर्गं गताः ॥ ५१ ॥ " 64 Jain Education International ३१ " ५२. तत्पट्टे द्विपंचाशत्तमः श्रीजिनलब्धिमूरिः । तस्य च पाटणवास्तव्य नवलखागोत्रीय साह ईश्वरकृतनंदिमहोत्सवेन पदस्थापना जाता । तरुणप्रभाचार्येण सूरिमंत्रो दत्तः । ततः क्रमेण श्री गुरु: सर्वसैद्धांतिकशिरोमणिरष्टविधानपूरकश्च संजातः । स च सं० १४०६ नागपुरे स्वर्ग भाक् ॥ ५२ ॥ ५३. तत्पट्टे त्रिपंचाशत्तमः श्री जिनचंद्रसूरिः । तस्य च सं० १४०६ माघ सुदि दशम्यां नागपुरवास्तव्य श्रीमाल साह हाथीकृत नंदिमहोत्सवेन पदस्थापना जाता । तरुणप्रभाचा - for सूरिमंत्रो दत्तः । श्री गुरुः सं० १४१५ आषाढ वदि त्रयोदश्यां स्तंभतीर्थे स्वर्गभाक् ॥५३॥ ५४. तत्पढे चतुःपंचाशत्तमः जिनोदयसूरिः । तस्य च पाल्हणपुरवास्तव्य माल्हूगोत्रीय साह रुंदपाल पिता, धारलदेवी माता, सं० १३७५ जन्म, समरौ इति मूलनाम । सं० १४१५ आषाढसुदि द्वितीयायां स्तंभतीर्थे लूणीयागोत्रीय साह जेसलकृत नंदिमहोत्सवेन श्री तरुणप्रभाचार्येण पदस्थापना कृता । ततः श्रीगुरुभिः तत्र श्रीस्तंभतीर्थे अजितजिनचैत्यप्रतिष्ठितं, तथा श्री शत्रुंजययात्रां कृत्वा तत्र पंच प्रतिष्ठाः कृताः । एवं विधाः पंचपर्वदिनोपवासकारकाः, द्वादश ग्रामेषु अमारिघोषणा प्रवर्त्तकाः, अष्टाविंशति (२८) साधुपरिवारेणानेकदेशविहारकारिणः, श्रीजिनोदयसूरयः सं० १४३२ भाद्रपद वद एकादश्यां पाटणनगरे स्वर्गं गताः । तद्वारके सं० १४२२ वेगड खरतर शाखा भिन्ना; तदेवप्रथमं धर्मवल्लभवाचकाय आचार्यपद प्रदानविचारः कृत आसीत्, पश्चात् तं सदोपं ज्ञात्वा द्वितीयशिष्याय आचार्यपदं दत्तं । तदा रुष्टेन धर्मवल्लभगणिना जेसलमेरुवास्तव्य वेगड़ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76