Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली-२॥ टकलयम्मि विमाणे दो सागरआउसो समुप्पण्णो ।
समणेसस्स जिणेसरसूरिस्स इमं कहिज्जासु ॥ टक्कउरे जिणवन्दणनिमित्तमिहागएण देवेण।
चरणम्मि उजमो भो कायव्यो किं च सेसेहिं ॥ .. एवंविधाः श्रीजिनेश्वरसूरयः प्रान्तेऽनशनं कृत्वा स्वर्ग गताः।
४१.तत्पट्टे एकचत्वारिंशत्तमः श्रीजिनचन्द्रसूरिः, स च संवेगरङ्गशालाप्रकरणकर्ता। तथा पुनरेकदा दिल्लीनगरे समागतः, तत्र 'त्वं दिल्लीपतिर्भविष्यसि' इति प्रागुक्त-गुरुवचनस्मरणात् संप्राप्तविवेकेन मौजदीनसुरत्राणेन प्रवेशोत्सवः कृतः, तथा धनपालश्रीमालगृहे निवासः कारितः। तदानीं धनपालः श्रावको बभूव, तत्सम्बधिनोऽन्येऽपि बहवः श्रीमालगोत्रीयाः श्राद्धाः,प्रतिबोविताः,केचिदन्यज्ञातीयराज्याधिकारिणोऽपि श्राद्धाःजाताः,तेभ्यःपातिसाहिना बहु महत्त्वं दत्तम्, ततस्तेषां 'महतीयाण' इति गोत्रस्थापना कृता। तगोत्रीयाः श्रावकाः 'जिनं नमामि, वा जिनचन्द्रगुरुं नमामि, नान्यम्' इति प्रतिज्ञावन्तो बभूवुः । एवंविधाः श्रीजिनचन्द्ररयो महाप्रभवका जाताः। तदैव च पद्मावत्या प्रत्यक्षीभूय प्रोक्तम्-'चतुर्थपट्टे सातिशयं 'जिनचन्द्र' इति नाम दातव्यमिति' । तत एवेयं व्यवस्था जाता।।
४२. तत्पट्टे द्विचत्वारिंशत्तमः श्रीअभयदेवसूरिः, स च जिनचन्द्रसूरीणां लघुगुरुभ्राता, परमसंवेगी च संजातः। तत्संबन्धो यथा-धारापुर्यों धननामा श्रेष्ठी,तद्भार्या धनदेवी, ततोऽभयछमारनामा पुत्रो जातः । स चैकदा जिनेश्वरसूरीणां पार्श्वे धर्म श्रुत्वा प्रतिबुद्धः। दीक्षां च जग्राह । क्रमेण सकलशास्त्राऽध्ययनेन गीतार्थो जातः, आ चार्यपदं च प्राप्तः। तत एकदा व्याख्याने शङ्गारादिनवरसान् पोषितवान् तदा सभा सर्वाऽपि आनन्दातिशयसंपन्ना जाता। परं गुरुभिरेकान्ते उपालम्भो दत्तः । ततोऽभयदेवसूरिणाऽऽत्मशुद्धयर्थं प्रायश्चित्ते याचिते गुरुभिरुक्तम्-'तकोपर्याऽऽगतजलेन ढुंभरकेण च षण्मासी यावद् आचाम्लतपः कार्यम् । तदा पापभीरुणा अभयदेवसूरिणा गुरुवचसा तथैव कृतम्-पडपि विकृतयः परित्यक्ताः। परमत्यन्तनीरसाहारकरणात् प्राक्तनकर्मोदयाच शरीरे गलत्कुष्ठरोगः समुत्पन्नः। तथापि औषधं न करोति । ततः प्रवृद्धो रोगः, तदा अनशनचिकीर्षया गुरवः संघाग्रहेण धवलकाभिधाने नगरे प्राप्ताः। अथ त्रयोदश्या अर्धरात्रे शासनदेबतया प्रकटीभूय प्रोक्तम्-'स्वामिन् ! नवैताःसूत्रकुक्कुटिका उन्मोहय। भगवानाह-'करागुलिगलनाद् उन्मोहयितुं न शक्नोमि'। तदा देवी प्राह-'अद्याऽपि त्वं चिरकालं वीरतीर्थ प्रभावयिप्यसि, नवाङ्गीवृत्तिं च विधास्यसि । ततो रोगगमनोपायं शृणु-स्तम्भनकपुरसमीपे सेढिकानदीतीरे खंखरपलाशतले श्रीपार्श्वनाथप्रतिमाऽस्ति, तत्र प्रत्यहमेका गौः समागत्य प्रतिमामूर्नि क्षीरं क्षरति । तत्र संघेन सार्धं गत्वा स्तुतिः कर्तव्या। प्रतिमा प्रादुर्भविष्यति, तत्स्नात्रजलेन नीरुक शरीरं भविष्यति' इत्युक्त्वा देवी अदृश्या बभूव । ततः प्रातः काले प्रत्यासन्ननगरमानेभ्य: समागतेन तद्ग्रामवासिना च श्रावकसंघेन साधे तत्र गत्वा 'जय तिहुयण ' इत्यादि नमस्कारद्वात्रिंशिका कृता । तत्र यावता 'फणफणकार' इत्यादि षोडशकाव्येन स्तुतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76