Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली-२॥ प्रारब्धा, तावता पार्श्वप्रतिमा प्रकटीबभूव । ततः श्रावकैः स्नात्रपूजां कृत्वा स्नपनजलेन गुरुणां शरीरं सिक्तम् , तदा रोगनिर्मुक्ताः काञ्चनवर्णशरीराः सूरयो बभूवुः। ततः श्रावकैस्तत्र उत्तुङ्गतोरणं देवगृहं कारितम् । तदा श्रीअभयदेवसूरिभिः तत्र पार्श्वप्रतिमा स्थापिता । तच्च स्तम्भनकनाम्ना महातीर्थ प्रसिद्धम् । तथा 'जय तिहुयण' स्तोत्रस्य अन्तिमे गाथाद्वये धरणेन्द्र--पद्मावत्याऽऽकर्षणमन्त्री गोपित आसीत् । तद् गाथाद्वयमपवित्रभूताः स्त्रीबालकादयो यत् किंचित् कार्येऽपि गुणयन्ति स्म, तदा उनः पुनरागमनेन खिन्नयाऽधिष्ठायकदेव्या गुरवे उक्तम्-'स्वामिन् ! एतद्गाथाद्वयं भाण्डागारे स्थापनीयम् , महति कार्ये गुणनीयम् । तथा इयं नमस्कारत्रिंशिका संध्यायां प्रतिक्रमणस्यादौ सदैव गुणनीया' इत्युक्त्वा देवी गता । ततो गुरुभिस्तथैव कृतम् । तथा नवाङ्गानां वृत्तयो विहिताः। एवंविधाः शासनप्रभावकाः श्रीअभयदेवसूरयः प्रान्ते गुर्जरदेशे कप्पडवणिजग्रामेऽनशनं कृत्वा चतुर्थ स्वर्ग प्राप्ताः।।
४३.तत्पट्टे त्रिचत्वारिंशत्तमो जिनवल्लभसूरिः, स च प्रथमं कूर्चपुरगच्छीय-चैत्यवासिजिनेश्वरसूरेः शिष्योऽभूत् । ततश्चैकदा दशवैकालिकं पठन् सावद्यौषधादिकं कुर्वाणम्-अतिप्रमादिनं स्वगुरुं विलोक्य उद्विग्नचित्तः संजातः। तदनन्तरं स्वगुरुमापृच्छय शुद्धक्रियानिधीनामभयदेवसूरीणां पार्वेऽगात् । तदुपसंपदं गृहीत्वा तेषामेव शिष्यश्च संजातः । क्रमेण शास्त्राण्यऽत्यि महाविद्वान् बभूव । तथा पिण्डविशुद्धिप्रकरण-गणधरसार्धशतक-पडशीति-प्रमुखाऽनेकशास्त्राणि कृतवान् । तथा दशसहस्रपमितवागडिकश्राद्धान् प्रतिबोधितवान् । तथा पुनश्चित्रकूटनगरे श्रीगुरुभिः चण्डिका प्रतिबोधिता। सूरिमन्त्रबलसधनीभूत साधारणश्राद्धेन कारितस्य द्विसप्तति (७२) जिनालयमण्डित श्रीवीरस्वामिचैत्यस्य प्रतिष्ठा कृता । तथा तत्रैव पुरे संवत् सागररस-रुद्र-(११६७) मिते श्रीअभयदेवसूरिवचनाद् देवभद्राचार्येण तेषां पदस्थापना कृता । ततस्ते षण्मासान यावद् आचार्यपदं भुक्त्वा अनशनेन कालं कृत्वा स्वर्ग प्राप्ताः । तद्वारके च 'मधुकरखरतर' शाखा निर्गता । अयं प्रथमो गच्छभेदः। तथा शासनदेवतावचनात् तत एव आचार्यस्य नाम्न आदौ सप्रभावस्य जिनपदस्य स्थापना प्रवृत्ता।
४४. तत्पट्टे चतुश्चत्वारिंशत्तमः श्रीजिनदत्तसूरिः, स च वाछिगमन्त्रि-वाहडदेव्योः पुत्रः, धंधूकाभिधनगरवासी, हुंवडगोत्रीयः, सं० ११३२ वर्षे लब्धजन्मा, सोमचन्द्रमूलनामा, सं० ११४१ वाचक धर्मदेवपार्श्वे गृहीतदीक्षाकः, तथा सं० ११६९ वैशाख व० दि० षष्ठीदिने चित्रकूटनगरे श्रीदेवभद्राचार्येण सूरिमन्त्रं दत्त्वाऽचार्यपदे स्थापितः-'जिनदत्तसूरि' इति नामस्थापना कृता । परंतु प्रागेकदा सारंगपुरे कुंवरपालोपाध्यायस्य निर्जरा कारिता आसीत्। स हि कालं कृत्वा देवपदं प्राप्य तदानीमेव प्रादुर्भूय बभाषे 'भोः सोमचन्द्र ! त्वमाचार्यपद प्राप्स्यसि, परं मुहूर्तप्रायं वर्तते । तत्राये मुहूर्ते मृत्युः, द्वितीये गच्छभेदः, तृतीय शुभम् । ततस्तृतीये मुहूर्ते पदं ग्राह्यम्, इत्युक्त्वा देवोऽदृश्यो जातः परं कथंचित् दैववसात् द्वितीये मुहूर्ते पदं जातं, तेन संवत् १२०४ जिनशेखराचार्यतो रुद्रपल्ल्यां रुद्रपल्लीय-खरतरशाखा भिमा । अयं द्वितीयो गच्छभेदः। पुनरेकदा श्री जिनदत्तसूरिश्चित्रकूट देवगृहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76