Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
|| खरतर मावली-२॥ सेन ज्ञातम् एतौ मम भागिनेयो, ततश्च बहुमानपुरस्सर स्वगृहे रक्षितौ । अथैया पार्ता चैत्यवासिभिः श्रुता, चिन्तितं च स्वचित्ते यतो जिनेश्वरसूरिरत्राऽऽगतोऽस्ति, स तु संवेगरगानिमनगानः परमशुद्धक्रियापात्रमस्ति, वयं तु शिथिला हीनाचारिणः स्मः, ततोऽयं केनाऽपि प्रकारणे नगराद् निष्कासनीयः, अन्यथाऽस्माकं निन्दा भविष्यति, इत्येवं विचिन्त्य कियाद्रिभैत्यवासिभिः संभूय दुर्लभनृपाय प्रोक्तम्-'महाराज ! अस्मिन् पुरे दिल्लीतो ग्रन्थिच्छोटकाः समागताः सन्ति, ते च भवत्पुरोहितस्य गृहे तिष्ठन्ति । अथ राज्ञा एतद् वाक्यं श्रुत्वा पुरोहितमाहूय पृष्टम्-'भवद्गृहे चौरा आगताः श्रूयन्ते' । तेनोक्तम्-'राजन् ! मद्गृहे तु शुद्धाचारवन्तः, सन्मागर्सचारिणो मुनीश्वराः सन्ति, न चौराः। किंतु ये केऽपि तेषु चौरव्यपदेशं कुर्वन्ति त एव चौराः। तदा राज्ञा आचारदर्शनार्थ जिनेश्वरसूरय आहूताः, आगता गुरवो राजसभायाम् , आस्तृतं वस्त्रं दूरीकृत्य, रजोहरणेन भूमिं प्रमार्य, ईपिथिकी प्रतिक्रम्य, स्वकम्बलमास्तीर्य स्थिताः। अथैतत् सद्गुर्वालोकनाद् आनन्दितेन राज्ञा उक्तम्-'सन्मार्गधारका एवंविधा एव भवन्ति ' । तथा पुनर्भूपेन एतेभ्यो विरुद्ध चैत्यवासिनामाचारं दृष्ट्वा गुरुभ्यो मुनीनामाचारः पृष्टः । तदा जिनेश्वरसूरिभिः प्रोक्तम्-' अस्माभिर्मुखात् किं कथ्यते, भवतां देवाधिष्ठितं सरस्वतीभाण्डागारमस्ति, तत्र सर्वमतस्वरूपनिवेदकानि पुस्तकानि सन्ति, ततो निर्मलजलेन कृतस्नानां कुमारी कन्यका संप्रेष्य भाण्डागारात् पुस्तकमानायितव्यम् । तदा राज्ञा तथैव कृते सति दशकालिकपुस्तकं कन्याया हस्ते आगतम्, तच राजसभायामानीतम, ततो गुरुभिः प्रोक्तम्-' इदं पुस्तकमेतेषां चैत्यवासिनामेव हस्ते देयम् , एते एक वाचयन्तु' ततो। वाचयद्भिस्तैः साध्वाचारपत्राणि मुक्तानि, तदानीं गुरुभिरुक्तम्- 'राजसभायां दिवसे चौर्य जायते। राज्ञा पृष्टम्-'तत् कथम् ? ' तदा तैरुक्तम्-'एभिः पत्राणि मुक्तानि !' राज्ञोक्तम्-'तर्हि यूयमेव वाचयत'। गुरुभिरुक्तम्-'नाऽत्र अस्माकं कार्यम् , पक्षपातरहितैर्ब्राह्मणैर्वाचनीयम्'। ततो ब्राह्मणेभ्यः पुस्तके दत्ते सति तैयथार्थ वाचितम् । तदा शास्त्राविरुद्धाचारदर्शनेन जिनेश्वरसरिमुद्दिश्य 'अतिखराः' इति राज्ञा प्रोक्तम् । ततः 'खरतर' विरुदं लब्धम् । तथा चैत्यवासिनो हि पराजयप्रापणात् 'कुंवला।' इति नामधेयं प्राप्ताः। एवं सुविहितपक्षधारकाः जिनेश्वरसूरयो विक्रमतः१०८० वर्षेः 'खरतर' विरुदधारका जाताः। तथा पुनरेकदा मरुदेवीनाम्नी साध्वी चत्वारिंशद् दिनानि यावदनशनं कृतवती, प्रान्ते निजेरां कारयद्भिर्जिनेश्वरसूरिभिरुक्तम्-'स्वकीयमुत्पत्तिस्थानं ज्ञापनीयम्' ततः सा गुरुवचः स्वीकृत्य, कालं कृत्वा देवपदं प्राप्ता। अथैकदास देवः सीमन्धरस्वामिवन्दनार्थ गच्छन् ब्रह्मशान्तियक्षं प्रत्युवाच-'भवता जिनेश्वरसूरीणां पार्श्वे गत्वा 'मसट सट' इत्येतानि पञ्चाक्षराणि कथनीयानि, एषामर्थ स्वयमेव गुरवो ज्ञास्यन्ति'--इति । तदा यक्षेणाऽऽगत्य तान्यक्षराणि कथितानि, ततो गुरुभिस्तेषामर्थो निगदितः । तद्यथा-- मरुदेवी नाम अजा गणिनी जा आसितुह्म गच्छम्मि ।
सग्गम्मि गया पढमे देवो जाओ महडीओ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76