Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 29
________________ । खरतरगच्छ पट्टावली-२ ।। परं पदि भवतां वैकुण्ठेच्छास्ति, तर्हि श्रीवर्धमानसूरेश्वरणसेवा कार्या, स एव एको वैकुण्ठदातास्ति' इत्युक्त्वा देवोऽदृश्यो बभूव । ततः प्रातःकाले ते त्रयोऽपि जना नद्यां स्नात्वा उपाश्रयमागत्य च गुरुभ्यो वैकुण्ठममार्गयन् । ततो गुरुभिरपि एकस्य भ्रातुर्मस्तकशिखायां स्थितां मत्सी दर्शयित्वा, दयामयं श्रीजिनधर्म द्योतयित्वा सर्वसिद्वान्तपारगाः कृताः। शिवेश्वरस्य जिनेश्वर इति नाम कृतम् । एकदा जिनेश्वरेण उक्तम्-'स्वामिन् ! यदि गुर्जरदेशे गम्यते तदा भूयसी धर्मोन्नतिः स्यात् । ततो गुरुभिरुक्तम्-'तत्र हीनाचारिणामसंयमिनां चैत्यवासिनां बहुः प्रचारोऽस्ति, ते उपद्रवं कुर्युः, ततस्तत्र न गम्यते ।' तदा पुनर्जिनेश्वरेण उक्तम्-' स्वामिन् ! यूकाभयात् किं वस्त्रं परित्यज्यते, ततो मह्यम्, बुद्धिसागराय च तत्र गमनार्थमाज्ञा दीयतास् ।' अथ गुरुभिरपि एतत् श्रुत्वा जिनेश्वर-बुद्धिसागराभ्यामाचार्यपदं दत्त्वा गुर्जरदेशं प्रति विहाराज्ञा दत्ता । तावपि गुर्वाज्ञया तं देशं प्रति विहारं चक्रतुः। तथा गुरुभिः कल्याणवती साध्वी महत्तरा कृता । तथा पुनः श्रीवर्धमानसूरिभिस्त्रयोदशसुरत्राणच्छबोहालक-चन्द्रावतीनगरीस्थापक-पोरवाडज्ञातीय-श्रीविमलमन्त्रिणं प्रतिबोध्य श्रीअर्बुदाचले छिनजैनतीर्थस्य पुनः प्रवृत्त्यर्थमुपदेशो दत्तः परं तत्रत्याह्मणैरुक्तम्- ' इदमस्माकं तीर्थमास्ति, अत्र जिनप्रासादो न भवति' इति । ततो गुरुभिः पुष्पमाला मन्त्रयित्वा, विमलमन्त्रिणे दत्वा च प्रोक्तम्-'भो ! मन्त्रिन् ! ब्राह्मणकन्याहस्ते इमां मालां प्रदाय ब्राह्मणानामग्रे इति वक्तव्यम्-'अस्मिन् पर्वते य भूमौ एषा माला पतति, तत्र अस्माकं तीर्थमस्ति ।' अथ मन्त्रिणा यथा गुरुभिरुक्तं तथैव कृतम् । ततश्च यत्र माला पतिता तत्र कलश-झल्लादिपूजोपकरणसहितं प्रतिमात्रयं प्रादुर्भुतम्-तत्रैका वज्रमयी श्रीआदिनाथप्रतिमा, द्वितीया अम्बिकामूर्तिः, तृतीया वालीनाथक्षेत्रपालमूर्तिः-इति । अथैवं कृतऽपि ब्राह्मणैः पुनरुक्तम्-'भवतां देवोऽस्ति,परं देवगृहं नास्ति, ततो देवस्यैव पूजा कार्या, देवगृहं तु न कारयितव्यम् - ति । तदा विमलमन्त्रिणा द्रव्यबलेन विप्रा वशीकृताः, स्वर्णमुद्रास्तरणं विधाय भूमि गृहीत्वा तत्र ऋषभदेवप्रासादः कारितः । अष्टादशकोटि-त्रिपञ्चाशल्लक्षप्रमितं द्रव्यं व्ययीकृतम् । तत्र अद्यापि 'विमलवसही' इति प्रसिद्धिरस्ति । ततः श्रीवर्धमानसूरिः सं० १०८८ प्रतिष्ठां कृत्वा प्रान्तेऽनशनं गृहीत्वा स्वर्ग गतः। ४०. तत्पट्टे श्रीजिनेश्वरसूरिः, स च बुद्धिसागरण साधं मरुदेशाद् विहारं कृत्वा अनुक्रमेण गुर्जरदेशे अणहिल्लपुरपत्तने समागतः । तत्र दुर्लभराजस्य पुरोहितः शिवशर्मानामा ब्राह्मणः स्वमातुलोऽस्ति, तद्गृहं प्राप्तः। अथ स विप्रो बहूंछात्रान् तर्क--व्याकरणादि शास्त्राणि पाठयन् एकस्य वेदपदस्य अशुद्धमर्थमुवाच । तदा श्रीजिनेश्वरसूरिभिः प्रोक्तम् 'अस्य पदस्य अयमों न भवति, भवद्भिः कथमित्थं पाठयते ?' । तदा विप्रेण उक्तम्-'भवतां वेदार्थपरिज्ञानं कुतः ? चेद् भवेत् तर्हि भवाद्भरेव अस्य अर्थो वाच्य ' इति । अथैतद् वचः श्रुत्वा गुरुभिर्ये केऽपि पुरो. हितस्य संदेहा अभूवन् ते सर्वेऽपि निरस्ताः। ततः पुरोहितेन पृष्टम्- ' को भवतां निवासः ? कश्च भवतः पिता ? ' इति । तदा गुरुभिर्वाराणसी नगरी, सोमदत्तब्राह्मणश्च प्रोक्तम् । तदा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76