Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 27
________________ ॥ परतरगम पहावली-५॥ १९ -अत्राऽवसरे श्रीआर्यरक्षितसूरिमहाप्रभावकः संजातः, स च दशपुरनगरे सोमदेवः पुरोहिता, रुद्रसोमा भार्या, तयोः पुत्रः साधिकनवपूर्वाणि वज्रस्वामितोऽधीत्य निजकुटुम्ब समग्रमपि प्रतियोध्य जिनशासनप्रभावनाकुजातः । तच्छिष्यः श्रीदुर्बलिकापुष्यमित्रसूरिर्वभूव । अत्रान्तरे पीरात् (५८४) वर्षे गोष्ठामाहिल: सप्तमो निह्नवो जातः। तथा (६०९) वर्षेर्दिगम्बरोत्पत्तिः । १९. ततः श्रीसमन्तभद्रसूरिर्वनवासी। २०. ततः श्रीदेवसूरिर्वद्धः। २१. ततः श्रीप्रद्योतनसूरिः। २२. ततः श्रीमानदेवसूरिः शान्तिस्तवकर्ता । २३. ततः श्रीमानतुङ्गसूरिभक्तामर-भयहरणस्तोत्रयोः कर्ता ।२४. ततः श्रीवीरसूरिर्जातः --अत्रान्तरे श्रीदेवर्द्धिगणिक्षमाश्रमणो महाप्रभावको जातः, स च वीरात अशीत्यधिकनवशतवर्षेः (९८०) वल्लभीनगर्या समस्तसाधुमीलनेन सर्वसिद्धान्तलेखकारी । देवर्द्धि यावद् एक पूर्व स्थितमिति वृद्धसंप्रदायः । -पुनस्तदैव श्रीकालिकाचार्यो जातः, स च वीरवाक्याद् भाद्रपदशुक्लपञ्चमीतश्चतुर्थ्या श्रीपर्युषणापर्व आनीतवान्, ततएवाऽद्यापि चतुरशीतिगच्छेषु चतुर्थ्यां सांवत्सरिकप्रतिक्रमण क्रियते । अयं च वीरात् त्रिनवत्यधिकनवशतवषैः (९९३), तथा विक्रमसंवत्सरात् त्रयोविंशत्यधिकपञ्चशतवः (५२३) संजातः। -पुनः कालिकाचार्यद्वयं प्राग जातम् , तत्राऽऽद्यः प्रज्ञापनाकर इन्द्रस्याग्रे निगोदविचारवक्ता श्यामाचार्यापरनामा, स तु वीरात् (३७६)वर्षैर्जातः । द्वितीयो गर्दभिल्लोच्छेदकः, स तु वीरात् (४५३) वातः। -पुनस्तदैव श्रीजिनभद्रगणिक्षमाश्रमणो जातः, स च विशेषावश्यकादिभाष्यकर्ता । तच्छिष्यः शीलाङ्गाचार्यः प्रथम-द्वितीयाङ्गवृत्तिकृत् । तदैव पुनः श्रीहरिभद्रसूरिर्बभूव, स च जात्या ब्राह्मणः, सर्वशास्त्रपारगः सन् प्रतिज्ञा चक्रे ' यदुक्तस्यार्थमहं न वेमि तच्छिष्यो भवामि' इति । तत एकदा साध्वीमुखाद् एकां गाथां श्रुत्वा तदर्थमनवबुध्यमानः प्रतिज्ञावशात् साध्वीदर्शितगुरुसमीपे व्रत जग्राह । जैनशास्त्राण्यपि सर्वाणि अधीत्य आचार्यत्वं प्राप्तः। तस्य हंस-परमहंसनामानौ द्वौ शिष्यौ परशासनरहस्यग्रहणार्थ बौद्धाचार्यसमीपं गतौ, तत्राऽध्ययनं कृत्वा, स्वपुस्तकं गृहीत्वा स्थानं प्रत्यगच्छन्तौ तौ जैनौ' इति ज्ञात्वा पश्चादागतैबौद्धर्मारिती । अथैतत् स्वरूपं विज्ञाय कोपाक्रान्तेन गुरुणा तप्ततैलपूरितं कटाहं स्थापयित्वा मन्त्रबलाचतुश्चत्वारिंशदधिकचतुर्दशशत (१४४४) बौद्धा आकर्षिताः, तदानीं याकिनीमहत्तरावचनैःकोपादुपशान्तेन गुरुणा बौद्धा मुक्ताः। ततः पापशुद्धयर्थमाकर्षितबौद्धप्रमाणानि (१४४४) पूजापशाशकादिप्रकरणानि कृतानि । एवंविधाः श्रीहरिभद्रसूरयो जाताः। २५. ततः ( श्रीवीरसूरिपट्टे ) श्रीजयदेवसूरिः । २६. ततः श्रीदेवानन्दसूरिः। २७. ततः श्रीविक्रमसूरिः। २८. ततः श्रीनरसिंहसूरिः। २९. ततः श्रीसमुद्रसूरिः। ३०. ततः श्रीमानदेवसूरिः। ३१. ततः श्रीविबुधप्रभसूरिः। ३२. ततः श्रीजयानन्दसूरिः। www.jainelibrary.org For Private & Personal Use Only Jain Education International

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76