Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 24
________________ ।। खरतरगच्छ पट्टावली - २ ।। , प्रतिबोधितवान् । ततः प्रभाते अष्टौ ( ८ ) कन्याः, अष्टौ ( ८ ) तासां मातरः, अष्टौ ( ८ ) च पितरः स्वस्थ मातापितरौ ( २ ) च - एवं २६, तथा चौरपञ्चशतीसहितः प्रभवः (५०१ ) - सर्वे ( ५२७ ), तैः सह जम्बूकुमारो दीक्षां जग्राह । तथा नवनवति ( ९९ ) कोटिस्वर्णमुद्राणाम्, अष्टकन्यानां च परित्यागी बभूव । स च षोडश ( १६ ) वर्षाणि गृहे, विंशति ( २० ) वर्षाणि छद्मस्थभावे, चतुश्चत्वारिंशद् ( ४४ ) वर्षाणि केवलिपर्याये च स्थित्वा - अशीतिर्वर्षाणि ( ८० ) सर्वायुः प्रपाल्य, वीराच्चतुष्षष्टि ( ६४ ) वर्षव्यतिक्रमे मोक्षं गतः, चरगकेवली जातः । तथा जम्बूस्वाभिनि मुक्ति गते दशवस्तुविच्छेदो जातः । तथाहि - १. मनः पर्यायज्ञानम्, २. परमावधिज्ञानम्, ३. पुलाकलब्धि:, ४. आहारकशरीरम्, ५. क्षपक श्रेणिः, ६. उपशमश्रेणिः, ७. जिनकाल्पिमार्गः, ८. परिहारविशुद्धिः, सूक्ष्मसंपरायम्, यथाख्यातचरित्रम्, ९. केवलज्ञानम्, १०. सिद्धिगमनं चेति । ४. तत्पट्टे प्रभवस्वामी, स च जयपुरवासिनो विन्ध्यस्य राज्ञः पुत्रः, कात्यायनगोत्रीयः, त्रिंशद (३०) वर्षाणि गृहे, चतुश्चत्वारिंशद् ( ४४ ) वर्षाणि सामान्यवते, एकादश (११) वर्षाणि आचार्य पदे स्थित्वा --सर्वायुः पञ्चाशीति (८५) वर्षाणि पाल्य वीरात् पञ्चसप्तति (७५) वर्षव्यतिक्रमे स्वर्गं जगाम । ५. तत्पट्टे शय्यं भवसूरिः, स च राजगृहवास्तव्यो वात्स्यगोत्रीयः, एकदा यज्ञं कुर्वन् श्रीप्रभवस्वामिप्रेषित साधुद्वयमुखाद् 'अहो ! कष्टं २, तत्त्वं न ज्ञायते परम्' इति वचनं श्रुत्वा संजातसंशयः स्वगुरुं प्रति खङ्गमुत्पाट्य तत्त्वं पप्रच्छ । तदानीं तेन गुरुणा प्रोक्तम् 'यज्ञस्तम्भस्य अधो वर्तमानं शान्तिनाथविम्वमस्ति इति तत्त्वम् ' ततस्तद्दर्शनाद् जैनधर्मे संजातरुचिः शय्यं भवभट्टः सगर्भा स्त्रियं मुक्त्वा प्रभवस्वामिपार्श्वे व्रतं जग्राह । क्रमेण 'योग्योऽयम्' इति ज्ञात्वा गुरुभिराचार्यपदे स्थापितः । अथ प्रचात् संजातजन्मनः कदाचित् स्वपार्श्वे समागतस्य मनकनाम्नो निजपुत्रस्य सावधि आयुर्ज्ञात्वा तन्निमित्तं सिद्धान्तादुद्धृत्य दशवैकालिकशास्त्रं कृतवान् ततः संघाग्रआगामिकालभाविप्राणिनामनुकम्पया च सूरिभिः स ग्रन्थो न पश्चात् प्रक्षिप्तः । तथा श्रशिभवरिष्टाविंशति वर्षाणि गृहे, एकादश (११) वर्षाणि सामान्यत्रते, त्रयोविंशति ( २३ ) वर्षाणि सूरिपदे स्थित्वा - सर्वायुर्द्विषष्टि (६२) वर्षाणि प्रपाल्य वीराद् अष्टानवति (९८ ) वर्षे: स्वर्गभाग् जातः । 9 ६. तत्पङ्के श्रीयशोभद्रसूरिः, स च तुङ्गीयायनगोत्रीयो द्वाविंशति (२२) वर्षाणि गृहे, चतुदेश (१४) वर्षाणि सामान्य व्रते, पञ्चाशद् (५०) वर्षाणि आचार्यपदे - सर्वायुः षडशीति ( (८६) वर्षाणि पाल्य वीरा अष्टचत्वारिंशदधिकैकशत ( १४८ ) वर्षव्यतिक्रमे स्वर्गभाक् । ७. तत्पट्टे सप्तम श्रीसंभूतिविजयः, स च माठरगोत्रीयो द्विचत्वारिंशद् (४२) वर्षाणि गृहे, चत्वारिंशद् (४०) वर्षाणि सामान्यत्रते, अष्टौ (८) वर्षाणि युगप्रधानत्वे स्थित्वा सर्वायुर्नवति (९०) वर्षाणि पाल्य वीरात् षट्पञ्चाशदधिकैकशत (१५६ ) वर्षातिक्रमे दिवं गतः । ८. तत्पङ्के द्वितीयो लघुगुरुभ्राता भद्रबाहुस्वामी तु प्राचीनगोत्रीयः, प्रतिष्ठानपुरवासी, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76