Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 23
________________ ॥ खरतरगच्छ पट्टावली ॥ [ २ ] प्रणिपत्य जगन्नाथं वर्धमानं जिनोत्तमम् । गुरूणां नामधेयानि लिख्यन्ते स्वविशुद्धये ॥ १. इह तावत् त्रिभुवनजनोपकर्ता, सकलपापसंतापहर्ता, परमशिवंकरः, चरमतीर्थंकरः, पञ्चमगतिगामी श्रीमहावीरस्वामी संजातः । स च इक्ष्वाकुकुलसमुद्भवः, काश्यपगोत्रीयः, क्षत्रियकुण्डग्रामनगराधीश्वरः, सिद्धार्थस्य राज्ञः त्रिशलाराश्याश्च पुत्रः, चैत्र शु० दि० त्रयोदश्यां जातजन्मा । तस्य महावीरस्य चतुर्दशसहस्रप्रामिताः साधवः, षट्त्रिंशत्सहस्रप्रमिताः साध्व्यः, एकोनषष्टि ( ५९ ) सहस्राधिकैकलक्षप्रमाणाः श्रावकाः, अष्टादशसहस्राधिकलक्षत्रयप्रमाणाः श्राविकाश्च बभूवुः । तथा पुनर्नव गच्छाः, एकादश गणधराः संजाताः । स भगवान् त्रिंशद् वर्षाणि यावत् गृहवासे स्थित्वा, एकपक्षाधिकानि सार्धद्वादश ( १२ ) वर्षाणि छद्मस्थपर्यायम्, पक्षाधिकषण्मासन्यूनानि त्रिंशद् वर्षाणि केवलिपर्यायं च प्रपाल्य - सर्वायुर्द्विसप्तति ( ७२ ) वर्षाणि पूरयित्वा चतुर्थारकस्य त्रिषु वर्षेषु सार्धाष्टमासेषु शेषेषु विद्यमानेषु पापायां नगर्या कार्तिकामावास्यायां मुक्तिं प्राप्तः । - तत्पट्टे गौतमस्वामी, स च इन्द्रभूतिनामा गौतम गोत्रीयः, वसुभूतिब्राह्मणस्य पृथ्व्याश्च ब्राह्मण्याः पुत्रः, पञ्चाशद् वर्षाणि गृहवासे स्थित्वा, त्रिंशद् वर्षाणि छद्मस्थपर्यायम्, द्वादश वर्षाणि केवलिपर्यायं च पाल्य - सर्वायुर्द्विनवति ( ९२ ) वर्षाणि पूरयित्वा वीरनिर्वाणाद् द्वादशवर्षव्यतिक्रमे मोक्षं प्राप्तः । किञ्च, गौतमस्वामिदीक्षिताः सर्वेऽपि साधवः केवलज्ञानं संप्राप्य मुक्तिमेव गताः न पश्चादेकोऽपि स्थितः तेन अग्रे गौतमस्वामिपरंपरा न व्यूढाः, अत एवाऽयं पट्टेषु न गण्यते । तथा पञ्चमारकप्रान्ते दुष्प्रसहसूरिं यावत् सुधर्मणः परंपरा स्थास्यति' इति वीरवाक्याद् अन्यैरपि सुधर्मस्वामिवर्जितैर्नवगणधरैर्निजनिजशिष्यसन्ततिं सुधर्मस्वामिने समर्प्य अनशनं कृत्वा मुक्ति श्रीर्वृता । 4 इह वरिज्ञानोत्पत्तितश्चतुर्दश वर्षे: जमालिनामा प्रथमो निह्नवो जातः, तथा षोडशवर्षैस्तिष्यगुप्तनामा द्वितीय निनवो जातः । २. अथ वीरस्वामिपट्टे सुधर्मस्वामी संजातः, कोल्लाकग्रामवासी, अग्निवैश्यायन गोत्रः, धम्मिल्लस्य पितुर्भद्दिलायाश्च मातुः पुत्रः । पञ्चाशद् ( ५० ) वर्षाणि गृहे, द्विचत्वारिंशद् (४२) वर्षाणि छद्मस्थ भावे, अष्ट ( ८ ) वर्षाणि केवलित्वे च स्थित्वा सर्वायुर्वर्षशतं ( १०० ) पाल्य वीरनिर्वाणाद विंशति ( २० ) वर्षव्यतिक्रमे शिवश्रियं प्राप । ३. तत्पट्टे श्रीजम्बूस्वामी, स च पञ्चमस्वर्गाच्च्युत्वा राजगृहनगर्यां काश्यपगोत्रीयऋषभदत्तनामा श्रेष्ठी, धारणी भार्या तयोः पुत्रत्वेन उत्पन्नः । एकदा समये सुधर्मस्वामिपार्श्वे धर्म श्रुत्वा वैराग्यं प्राप्य, स्वगृहं चागत्य रात्रौ नवपरिणीता अष्टौ कन्याः प्रतिबोधयन्, तालोद्घाटिनीविद्यासंपन्नं चौरपञ्चशतीपरिवृतं चौर्यर्थं गृहे प्रषिष्टं प्रभवनामानं राजकुमारं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76