Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ-सूरिपरंपरा-प्रशस्तिः ।। तत्पट्टपङ्कजयुगे भ्रमरायमाणं ननम्यते जिनसमुद्रगुरुं तमेनम् ।
नेत्रेक्षणेषुशशभृत्प्रमिते च वर्षे पट्टोत्सवो विपुलपुञ्जपुरे यदीयः ८८ ॥ दाने वितीर्यमाणे प्रवरां चक्रिरे प्रतिष्ठां ये।
वाग्भटमेरुविहारे सारेऽस्मिन् भूतले सुतराम् ॥ ८९ ॥ आदेशान्नृपसातलस्य मुदितो जाटाभिधः श्रीवरो
रत्नाब्धीषुशशिप्रमाणशरदि प्रोद्भुतपुण्योत्सवे । श्रीमण्डूकवराभिधानविषयेऽप्यानीतवान् माधवे
श्रीमज्जेसलमेरुतः पुरवरे योधानके श्रीगुरून् ।। ९०॥ करसरोरुहसिद्धिरमाधरान् सकललब्धिमहोदधिसुन्दरान् । __गुरुगुणावलिभूषितविग्रहान् जिनसमुद्रगुरून्नमतादमून् ॥९१॥
--चतुर्भिः कलापकम् ॥ तेषां पट्टाम्भोजलीलामरालाः सूरीशाः श्रीजैनहंसा रसालाः । ___ कामध्वंसे नीलकण्ठोपमाना जेजीयंतां निर्जिताशेषमानाः ॥९२ ॥ श्रीविक्रमाख्ये नगरे विशाले बाणेषुबाणेन्दुमितौ समायाम् ।
ज्येष्ठस्य शुक्ल नवमीदिनेऽथ वारे गुरौ चारु शुभे पि लग्ने ॥ ९३ ॥ श्रीकमसिंहेन कृतोद्यमेन धनव्ययात्प्रीणितसर्वलोकः।।
येषां गुरूणां नतनागराणां पट्टोत्सवोऽकारि सुविस्तरोऽयम् ॥९४ ॥ अत्रान्तरे श्रीजिनदेवसूरेः श्रीआद्यपक्षीयगणो विभिन्नः ।
रेयाभिधाने नगरेऽजनिष्ट बाणर्तुबाणेन्दुमिते च वर्षे ॥९५॥ कर्वन्तः क्रमशो विहारमनघं देशेष्वनेकेष्वथ
श्रीमेवातविशेषकेऽतिविपुले श्रीआकराख्ये पुरे । जग्मुस्तत्र शकन्दरो नरपतिस्तद्राज्यभारंधरौ
श्रीमडूंगरपद्मसिंहसचिवो श्रीमालचूडामणी ॥ ९६॥ तौ स्वश्रीफलकाङ्क्षिणौ वितरणैरत्यद्भुताडम्बरै___ श्चक्राते नगरप्रवेशनमहं श्रीमद्गुरूणां मुदा । तेषां तत्रसतामथो गुणवतां प्राचीनकर्मोदयात् ।
कोऽप्येको प्रतिकसुट दुष्टमतिकः पश्यन् सदौतुथूलम् (?)॥९७॥ सोऽन्येयुः क्षणमाप्य पापहृदयः सप्ताष्टवारं कुधीः
साहीनस्य पुरोरदासिमखिलां (?) चक्रे तदा तामथ । नो मन्येत नृपस्ततश्च किमपि प्रोद्भाव्य कूटाशयमेकः श्वेतपटो महानतिशयीहास्तीति संश्लाघते ॥ ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76