SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥ खरतरगच्छ-सूरिपरंपरा-प्रशस्तिः ।। तत्पट्टपङ्कजयुगे भ्रमरायमाणं ननम्यते जिनसमुद्रगुरुं तमेनम् । नेत्रेक्षणेषुशशभृत्प्रमिते च वर्षे पट्टोत्सवो विपुलपुञ्जपुरे यदीयः ८८ ॥ दाने वितीर्यमाणे प्रवरां चक्रिरे प्रतिष्ठां ये। वाग्भटमेरुविहारे सारेऽस्मिन् भूतले सुतराम् ॥ ८९ ॥ आदेशान्नृपसातलस्य मुदितो जाटाभिधः श्रीवरो रत्नाब्धीषुशशिप्रमाणशरदि प्रोद्भुतपुण्योत्सवे । श्रीमण्डूकवराभिधानविषयेऽप्यानीतवान् माधवे श्रीमज्जेसलमेरुतः पुरवरे योधानके श्रीगुरून् ।। ९०॥ करसरोरुहसिद्धिरमाधरान् सकललब्धिमहोदधिसुन्दरान् । __गुरुगुणावलिभूषितविग्रहान् जिनसमुद्रगुरून्नमतादमून् ॥९१॥ --चतुर्भिः कलापकम् ॥ तेषां पट्टाम्भोजलीलामरालाः सूरीशाः श्रीजैनहंसा रसालाः । ___ कामध्वंसे नीलकण्ठोपमाना जेजीयंतां निर्जिताशेषमानाः ॥९२ ॥ श्रीविक्रमाख्ये नगरे विशाले बाणेषुबाणेन्दुमितौ समायाम् । ज्येष्ठस्य शुक्ल नवमीदिनेऽथ वारे गुरौ चारु शुभे पि लग्ने ॥ ९३ ॥ श्रीकमसिंहेन कृतोद्यमेन धनव्ययात्प्रीणितसर्वलोकः।। येषां गुरूणां नतनागराणां पट्टोत्सवोऽकारि सुविस्तरोऽयम् ॥९४ ॥ अत्रान्तरे श्रीजिनदेवसूरेः श्रीआद्यपक्षीयगणो विभिन्नः । रेयाभिधाने नगरेऽजनिष्ट बाणर्तुबाणेन्दुमिते च वर्षे ॥९५॥ कर्वन्तः क्रमशो विहारमनघं देशेष्वनेकेष्वथ श्रीमेवातविशेषकेऽतिविपुले श्रीआकराख्ये पुरे । जग्मुस्तत्र शकन्दरो नरपतिस्तद्राज्यभारंधरौ श्रीमडूंगरपद्मसिंहसचिवो श्रीमालचूडामणी ॥ ९६॥ तौ स्वश्रीफलकाङ्क्षिणौ वितरणैरत्यद्भुताडम्बरै___ श्चक्राते नगरप्रवेशनमहं श्रीमद्गुरूणां मुदा । तेषां तत्रसतामथो गुणवतां प्राचीनकर्मोदयात् । कोऽप्येको प्रतिकसुट दुष्टमतिकः पश्यन् सदौतुथूलम् (?)॥९७॥ सोऽन्येयुः क्षणमाप्य पापहृदयः सप्ताष्टवारं कुधीः साहीनस्य पुरोरदासिमखिलां (?) चक्रे तदा तामथ । नो मन्येत नृपस्ततश्च किमपि प्रोद्भाव्य कूटाशयमेकः श्वेतपटो महानतिशयीहास्तीति संश्लाघते ॥ ९८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy