Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 14
________________ ।। खरतरगच्छ सूरिपरंपरा प्रशस्तिः ।। रंगतरंगा सदने तुरंगा विशालनेत्रा युवती सरंगा । __ वाणीतरंगा वदने रसाला यस्य प्रसादाकिल संभवन्ति ॥ ६९ ॥ देवराजपुरे यस्य स्वर्गतस्य गुरोरथ । पूज्यमानं जनैः स्तूपं ददाति सकलं सुखम् ॥ ७० ॥ तद्यथा-निर्धनाय धनं दद्यात् नेत्रहीनाय लोचनम् । विद्याहीनाय सद्विद्यामश्रोतृणां च सुश्रुतिम् ॥७१॥ राज्यार्थिनां च यद्राज्यं सुखं सुखार्थिनामपि । प्रयच्छत्युत्तमं भोगंभोगार्थिभ्यो विशेषतः॥७२॥ कुष्ठिनां हरते कुष्ठ रोग रोगवतामपि । कष्टं कष्टवतां पुंसां दौर्भाग्यं दुर्भगात्मनाम् ॥७३॥ --चतुर्भिः कलापकम् । शून्यं ग्रहामीदुमितेऽत्र वत्सरे श्रीदेवराजाख्यपुरे पदोत्सवः । जज्ञे च यस्याविरभूत्सरस्वती श्रिये स वः श्रीजिनपद्मसूरिराद् ॥७४ ॥ खखवेदचन्द्रमाने वर्षे पट्टाभिषचनं यस्य । गुणलब्धिरत्नजलधि याजिनलब्धिसूरिगुरुः ॥७५ ॥ पच्छून्यवेदेन्दुमिते हि वर्षे पट्टोत्सवो जेसलमेरुदुर्गे । __ यस्याभवद् द्रव्यधनव्ययेन सोऽस्तु श्रिये श्रीजिनचन्द्रसूरिः ॥७६ ॥ घाणेन्दुवेदशशिभृत्प्रमिते च वर्षे श्रीस्तंभतीर्थनगरे समभूद् यदीयः।। पट्टाभिषेकमहिमा गरिमालयोऽसौ जेजीयते गुरुजिनोदयसूरिराजः ॥ ७७ ॥ श्रीजिनेश्वरसूरीणां तदैव निर्गतो गणः । वैकट इति नानासीद्विश्रुतोऽयं महीतले ।। ७८ ॥ नेत्राक्षिनीरनिधिचन्द्रमिते च वर्षे श्रीपत्तने पुरवरे पदमाविरासीत् । ___ श्रीमज्जिनोदयगुरोः पदपङ्कजालीभृङ्गायितं नमत तं जिनराजसूरिम् ॥७९॥ तत्पट्टनन्दनवने विभाति जिनभद्रसूरिसुरफलदः। सकलमनोमतदाता शतशाखावर्धितो बाढम् ॥ ८०॥ अत्रान्तरे देवकुलादिपाटके चन्द्रर्तुवेदेन्दुमिते च वत्सरे । शाखा गुरुश्रीजिनवधनानां शुक्राद्यपक्षे दशमीदिनेऽभूत् ॥ ८१॥ बाणर्षिवेदेन्दुमिते च वर्षे माघस्य राकादिवसेऽजनिष्ट । पट्टोत्सवो भाणसपल्लिकायां ननौमि तं श्रीजिनभद्रसूरिम् ॥ ८२ ॥ गुरोः श्रीजिनभद्रस्य महिमा वर्ण्यते कियान्। यद्भाले भासते भाग्यलक्ष्मीविस्मयकारिणी॥८३॥ वामेतरे यत्करपङ्कजेऽस्मिन् चेक्रीयते सिद्धिरमामुकेलिम् । विहारनीरोर्मय एव येषां संपत्तिशस्यानि समेधयन्ति ॥ ८४ ॥ दारियं क्षीयते येषां सौम्यदृष्टिविलोकनात् । चन्द्रोदयाद्यथापैति संकोचः कुमुदाकरे ॥८५॥ तत्पशकासनेइवराजो विराजते श्रीजिनचन्द्रसूरिः।। श्रीपत्तने यस्य पदोत्सवोऽभूदाणेन्दुबाणेन्दुमिते च वर्षे ॥८६॥ श्रीमजेसलमेरौ समराकारितविहारमध्येऽस्मिन् । जिनचन्द्रसूरिगुरुणा चक्रे बिम्बप्रतिष्ठा सा॥८७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76