________________
( ५९ )
विनिर्मितानि] त्रिंशञ्चतुर्विंशतिकास्तवनानि
चतुर्थभरतस्तवः ॥ ४ ॥
अतीतजिना:
मदमत्तं तथा मूर्तिस्वामिनं च निरागमम् । प्रलम्बकं नमस्कुर्वे पृथ्वीपत्यभिधानकम् ॥ १ ॥ चारित्रनिधिमश्चामोऽपराजितसुबोधको । बुद्धेशं वैलालिकाख्यं त्रिमुष्टिं मुनिबोधकम् ॥ २ ॥ तीर्थस्वामिक-धर्मार्थं ग्रामेशं च समाधिकम् । प्रभवनादिप्रमुं सर्वतीर्थ नौमि नरोपमम् ॥ ३ ॥ कुमारकं विहाराप्रस्वामिनं धरणेश्वरम् ।
विकासं च चतुर्विंशत्यतीताः पान्तु वो जिनाः ॥ ४ ॥ वर्तमानजिनाः
जगन्नाथं प्रभासं च संवरस्वामिनं श्रये । भरतेशं तथा दीर्घाननं विख्यातमेव च ॥ ५ ॥ अप्रानिकं () प्रबोधं च तपोनाथं च पापकम् । त्रिगरं सागरं वन्दे श्रीवासाख्यमहम्मतम् ॥ ६ ॥ सुकर्मेशं नमस्कुर्वे क्रमान्तिकाऽमलेन्द्रकौ । ध्वजासिकं प्रसादाख्यं विपरीताह्वयं तथा ॥ ७ ॥ मृगाकं स्वामिनं बन्दे कपाटक-गजेन्द्रको । ध्यानजं चेत्यमी वर्तमानास्तीर्थङ्कराः श्रिये ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org