Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 648
________________ ९९ रचितवृत्तियुतम् ] पद्मावत्यष्टकम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य कुमारीसूत्रेण वेष्टय बाहौ धारणीयम्, सर्पविष - ज्वलन - दाघज्वर - भूतशाकिनी प्रभृतिरक्षा भवति हुङ्कारम्। यन्त्रमुच्यते । ' भीमैकनादे ! ' महाघोरे ! प्रतीतनादे ! प्रल्हादे (?) पुनः कीदृशी ? पद्म ! - पद्मावती देवी इति सम्बन्धः । पुनरपि कीदृशे ? ' पद्मासनस्थे ! ' पद्म-आसने तिष्ठति या सा पद्मासनस्था, तस्याः सम्बोधनं पद्मासनस्थे । ? पङ्केरुहासनस्थे ! । पुनरपि कीदृशे ? देवेन्द्रवन्द्ये ! ' देवेन्द्रैवन्द्या देवेन्द्रवन्द्या, तस्याः सम्बोधनं देवेन्द्रवन्द्ये "" इदानीं शान्तिक- पौष्टिक - तुष्टिक - यन्त्रं विषहरयन्त्रं मन्त्रं सप्रपञ्चमाहकोपं वं झं सहंसः कुवलयकलितोद्दामलीलाप्रबन्धे ! हृा ह्री हूँ: पक्षबीजैः शशिकरधवले ! प्रक्षरत्क्षीरगौर ! | व्यालव्याबद्ध कूटे ! प्रबलबलमहाकालकूटं हरन्ती हाहा हुंकारनादे ! कृतकरमुकुलं रक्ष मां देवि ! पद्मे ! ॥ रक्ष - पालय । कम् ? माम् । कासौ कर्त्री ? पद्मावती । कीदृशम् ? कृतकरमुकुलम् विहितपाणिकमलमीलनम् । कीदृशम् ? को पं वं झ सहसः ' कोपं च वं च झंच कोपं वंझं सह " हंसेन वर्तते यः सह॑सः । A तत्राद्यपदस्य भावनामाह ॐ को पँ वँ झैँ हंसः । वस मन्त्रः । ॐ क्षाँ स हूँ ह्रीँ स्वाँ सनौँ हँस: चक्रमुद्रया प्रयुञ्जीत । पुनः कथम्भूते ? कुवलयकलितोद्दामलीलाप्रबन्धे ! ' कुवलयं - पृथ्वीवलयं, अथवा कुवलयैःनीलोत्पलैः कृत्वा कलितः उद्दामः-स्फारो लीला प्रबन्धः - क्रीडा समूहो यस्याः सा, तस्याः सम्बोधनं ' कुवलयकलितोद्दामलीला प्रबन्धे ! तस्या मन्त्रः - ॐ कुकुवलयहसः । कुसुममन्त्रः । पुनरपि कथम्भूते ? शशिकरधत्रले ! ' शशिनः कराः शशिकराः तद्वत् धवला शशिकरधवला, तस्याः ● सम्बोधनं शशिकरधवले ! शुधांशुकिरणावदाते ! । हाँ कृत्वा ह्वाँ ह्वाँ ह्रः पक्षिबीजै: हाँ च ह्रीँ चहूँ पक्षिश्च ह्वाँ ह्रीँ ह्रः पक्षयः Jain Education International 今 " For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662