Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
११०
जैनस्तोत्रसन्दोहे |
बंभस्स रिट्ठपयरंमिनिट्टिओ हिट्टिमलगागारा । उवरिं कुक्कुडिपंजरसंठाणो चउदिसिं तत्थ ॥ ४ ॥
दो दो अ कण्हराई सचित्ताचित्तपुढविपरिणामा । पुव्वाइ मज्झिमादाहिणाई वज्झाफुसहिं कमसो ॥ ५ ॥
[ श्रीधर्मघोष
पुव्वावरा छलं सातं सा पुण दाहिणुत्तरा बज्झा | अभितर उरंसा सव्वा विय कण्हराईओ ॥ ६ ॥
'अस्य च महत्वमेवम -
यो देवो महर्धिको यया गत्या तिसृभिश्च पुविकाभिः २१ वारान् जम्बूद्वीपमनुपरिवृत्त्या गच्छेत् स एव देवस्तयैव गत्या षद्भिरपि मासैः सङ्ख्यातयोजनविस्तरमेव तमस्कायं व्यतिव्रजेन्नेतरं चउदिसिं तत्थ ' इति । तत्र रिष्टप्रस्तरे रिष्टविमानस्य चतुर्दिक्षु सच्चित्ताचित्तपृथ्वीविकाररूपे द्वे द्वे कृष्णराज्यौ वर्तते । अयं च तमस्कायो लोकान्तस्तथाविधस्यान्यान्धकारस्याभावाल्लोकतमिस्र इति । तथा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वाद्देवतमिस्र: । बलवद्देवभयान्नश्यतां देवानां शरण्यभूतत्वात् तथाविधारण्यमिव देवारण्यम् । देवानां दुर्भेदत्वाच्चक्रव्यूह इवेति देवव्यूहः, देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात् परिघ इव देवपरिघः, प्रथमदर्शने 'देवानामपि क्षोभहेतुत्वात् प्रतिपक्ष इवेति देवप्रतिपक्षः, इत्यादिनामभिरुच्यते । तमस्कायान्तश्च देवादिविकुर्विता बादरा मेघा गर्जितानि विद्युतश्च भवन्ति । चन्द्रसूर्यादयस्तु न सन्ति । तत्प्रभा पुनरन्तर्गतास्ति परं तमस्कायपरिणामपरिण... सतीति ' चउदिसि तत्थ 'त्ति तत्र रिष्टाभविमानप्रस्तटे रिष्टाभवि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 657 658 659 660 661 662