Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
सूरिविरचितः ] मालामन्त्रस्तवः।
ज परिशिष्टम् । श्रीधर्मघोषसरिविरचितं लोकान्तिकदेवस्तवनम् ।
थोसामि जिणे जेहि उ विनविया पव्वयंति जं दाउं । तज्जियकप्पियलोगंतिदेवद्वाणाइकित्तणओ ॥१॥ असंखतमेऽरुणवरुदहिम्मि जोयणसहस्सबायाला । गंतु जलोवरिमतला उप्पइओ आउतमकाओ ॥२॥ पढमं जोयणसंखिजवि वित्थडो उवरुवरिय संखिजे । महयंधयाररूवो उडू आवरिय चउकप्पो ॥३॥
अवचूरिः। थैर्देवैर्विज्ञप्ताः प्रव्रजन्ति जिनास्ते जीतकल्पाः स्थिराचारा लोकान्तिकदेवास्तत्स्थानादि कीर्तनतोऽहं जिनान् स्तोष्ये । यच्च दत्त्वा प्रव्रजन्ति जिनास्तत्कीर्तनाच्च स्तोष्ये जिनानिति ॥१॥ - लोकान्तिकदेवाः कस्मिन् विमाने व कल्पे सन्ति ?, उच्यतेजम्बूद्वीपात् तिर्यगसङ्ख्याततमेऽरुणवरसमुद्रेऽरुणवरद्वीपपर्यन्तवेदिकातो द्विचत्वारिंशद् योजनानि गत्वा तस्मिन् प्रदेशे जलोवरिमतलादुत्पत्तितः तमस्कायो अप्कायमयो महान्धकाररूपो वलयाकारः प्राप्यते ॥२॥ ____ स च प्रथमं सप्तदशयोजनशतान्येकविंशतिसमधिकानि यावत् समभित्त्याकारतयास्ति, तथा प्रथमं विष्कम्भेण सङ्ख्येययोजनविस्तरः, तदुपरि असङ्ख्येयविस्तृतः, परिक्षेपेण सर्वत्राप्यसङ्ख्येयान्येव स च तिर्यगूविस्तरानायकल्पचतुष्टयमावृत्य पञ्चमकल्पतृतीयेऽरिष्टप्रस्तरे निष्ठितः स चाधः शरावाकाराः उपरि कुक्कुटपञ्जरसंस्थानः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 656 657 658 659 660 661 662