Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
७८
जैनस्तोत्रसन्दोहे | [ पार्श्वदेवगैणि
तत्राद्यं वृत्तमाह
श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योतिज्वीला करालस्फुरितमुकुरिकाघृष्टपादारविन्दे ! | व्याघ्रोरोल्कासहस्र ज्वलदनलशिखालोलपाशाङ्कुशाढये !
७७
6
ॐ क्रो ह्री मन्त्ररूपे ! क्षपितकलिमले ! रक्ष मां देवि ! पद्मे ! | रक्ष - पालय ! हे देवि ! पद्मावति ! शासनदेवि ! । कम् ? 'मां ? स्तुतिकर्तारम् । कीदृशे देवि ! ? श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला ज्योतिर्ज्वालाकरालस्फुरितमुकुरिकाघृष्टपादारविन्दे ! ' श्रीर्विद्यते येषां ते श्रीमन्तः, श्रीमन्तो गीर्वाणाः श्रीमद्गीर्वाणा:, तेषां चक्रं श्रीमद्गीर्वाणचक्रम्, स्फुटानि च तानि मुकुटानि च स्फुटमुकुटानि, श्रीमद्गीर्वा णचक्रे स्फुटमुकुटानि श्रीमद्गीर्वाणचक्रस्फुटमुकुटानि । तटे भवा तटी, तेषां मुकुटानां तटी श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटी । दिव्यानि - प्रधानानि माणिक्यानि, दिव्यमाणिक्यानि तेषां दिव्यमाणिक्यानां माला दिव्यमाणिक्यमाला, तासां श्रीमद्गीर्वाणचक्रस्फुट मुकुटतटीनां दिव्यमाणिक्यमाला श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमाला, तस्या ज्योतिः - तेजः, तस्य ज्वाला श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्य माणिक्यमालाज्योतिर्ज्याला, तया करालं । स्फुरिता मुकुरिका स्फुरितमुकुरिका, श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्यमालाज्योतिज्वाला करालस्फुरितमुकुरिका । पादावेवाऽरविन्दे घृष्टा चासौ पादारविन्दा च घृष्टपादारविन्दा, श्रीमद्गीर्वाणचक्रस्फुटमुकुटतटीदिव्यमाणिक्य मालाज्योतिर्ज्याला करालस्फुरितमुकुरिकाघृष्टपादारविन्दे ! त्रिदशनिकुरम्बस्ल ? चलकिरीटपर्यस्तप्रधान रत्नमालादीप्तिशिखारौद्रस्पूर्ण्यमानमुकुरिकया घर्षितचरणेन्दीवर ! पुनरपि कीदृशे ? व्याप्नोरोल्कासहस्रज्वलदनलशिखालोलपाशाङ्कुशाढये ! ' व्याघ्रोरोश्च ता उल्काश्च व्याघ्रो• रोल्काः तासां सहस्राणि व्याघ्रोरोल्कासहस्राणि । ज्वलंश्चासावनलश्च ज्वलदनल:, तस्य शिखा ज्वलदनलशिखा, व्याघोरोल्कासहस्त्राणि च ज्वलदनलशिखा च, पाशश्च अङ्कुशं च पाशाङ्कुशे, लोले च ते पाशाङ्कुशे च लोलपाशाङ्कुशे, ते च, व्याघ्रोरोहका सहस्रज्जलदनलशिखालोलपाशाङ्कुशाः, तैः आढ्या व्याघ्रोरोल्का
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662