Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 637
________________ जैनस्तोत्रसन्दोहे | [ श्रीपार्श्वदेवगण पत्रम् । कस्य ? पार्श्वभर्तुः । पार्श्वाभिधानयक्षस्य । पुनरपि कं कर्मतापन्नम् ? ' कूजत्कोदण्ड काण्डोड्डमरविधुरितकूरघोरोपसर्गम्' कोदण्डश्च काuser कोदण्डकाण्डौ, कूजन्तौ कोदण्डकाण्डौ कूजत्कोदण्डकाण्डौ, तयोरुडुमरः कूजत्कोदण्डकाण्डोड्डमरः क्रूरश्च घोरश्च क्रूरघोरौ, क्रूरघोरौ उपसर्गों यस्यासौ क्रूरघोरोपसर्गः, कूजत्कोदण्ड काण्डोड्डमरेण विधुरितः क्रूरघोरोपसर्गः, कूजत्कोदण्डकाण्डोड्डमरविधुरितकूरघोरोपसर्गः तम् कूजकोडकाण्डोमरविधुरितक्रूरघोरोपसर्गम् 1 गदाधनुर्बाणो डुमर विधुरितदुष्टरौद्रविघ्नम् । न केवलं, बिभ्राणा किं तत् ? 'वज्रातपत्रम्' । कीदृशम् ? ' दि-: 'व्यम्' प्रधानम् । तथा बिभ्राणा, किं तत् ? 'भास्वद्वैडूर्यदण्डम् ' भास्वान्प्रभापुजसहितो वैडूर्यदण्डो येनासौ भास्वद्वैडूर्यदण्डः, तं भास्वद्वैडूर्यदण्डम् देदिप्यमान रत्न विशेषमे तल्लगुडम् । कीदृशम् ? प्रगुणमणिरणत्किङ्किणीक्वाणर-म्यम् ' प्रगुणाश्च ते मणयश्च प्रगुणमणयः, रणन्त्यश्च ताः किङ्किण्यश्च रणकिङ्किण्यः, प्रगुणमणीनां रणत्किङ्किण्यः, प्रगुणमणिरणत्किङ्किण्यः, प्रगुणमणिरणत्किङ्किणीनां क्वाणः प्रगुणमणिरणत्किङ्किणीक्काण:, तेन रम्यम् प्रगुणमणिरणत्किङ्किणीक्काणरम्यम्, विशिष्टरत्ननिर्मितक्षुद्रघण्टिकारावरमणीयम् । कीदृशस्य पार्श्वभर्तुः ? 'मदन विजयिनः ' कामजयिनः । भावनामाह—हाँ धनु महाधनुं सर्वधनुं देवि ! पद्मावति ! सर्वेषां दुष्टचौराणां आयुधं बन्ध २ दृष्टिं बन्ध २ मुखस्तम्भं कुरु २ स्वाहा । एषा विद्या मार्गभये सप्तवारानभिमन्त्र्य पन्थे धनुरालिखेत् चोरभयं न भवति ॥ ८८ ॐ नमो धरणेन्द्राय खड्ड विद्याधराय चल २ खनं गृह्ण २ स्वाहा । अष्टोत्तरसहस्रं करजापो पुष्पाणि वा दिनत्रय सिद्धिः । खड्ग स्तम्भनमन्त्रः । ॐ कुबेर ! अमुकं चोरं गृह्ण २ स्थापितं दर्शय आगच्छ स्वाहा । भस्मना कटोरकं पूयित्वा पूजयेत् । चोरं गृह्णापयति । पूर्वसेवा दशसहस्राणि जपेत् । ततः सिद्धो भवति ॥ इदानीमनेकप्रकारं शस्त्रं प्रतिपाद्य अधुना देवकुलरक्षास्तम्भनमोहनो - चाटन विद्वेषणबशीकरणभूतशाकिनी देवीनामभिधानानि मन्त्राणि विद्याश्व सप्रपञ्चमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662