Book Title: Jain Stotra Sandohe Part 01
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab
View full book text
________________
८०
जैनस्तोत्रसन्दोहे |
[ पार्श्वदेवगण
• सिद्धिर्भवति । करजापलक्षेण निरन्तरं ध्यायमानेन आरोग्यबुद्धिलाभः । सर्वकार्याणां सिद्धिर्भवति । सुगमम् ॥
इदानीं प्रथमवृत्तानन्तरं मालामन्त्रमनेकप्रकारं सप्रपञ्चमाहभित्त्वा पातालमूलं चलचलचलिते ! व्याललीलाकराले ! विद्युद्दण्डप्रचण्डप्रहरणसहिते ! सद्द्भुजैस्तर्जयन्ती । दैत्येन्द्रं क्रूरदंष्ट्राकटकटघटितस्पष्टभीमा हासे ! मायाजीमूतमालाकुहरितगमने ! रक्ष मां देवि ! पद्मे ! ॥२॥
८
व्याल
हे देवि ! पद्मावति ! शासनदेवि ! रक्ष पालय, कम् ? 'माम् ' स्तुतिकर्तारम् कीदृशे देवि ! ' चलचलचलिते ! ' चलचलचलितं यस्याः सा चलचलचलिता, तस्याः सम्वोधनं चलचलचलिते ! चञ्चलगमने ! इत्यर्थः किं कृत्वा ? ' भित्त्वा ' विदारयित्वा किम् ? ' पातालमूलम् ' पातालस्य मूलं पातालमूलम् - असुरभवनमूलमित्यर्थः । पुनरपि कीदृशे ? लीलाकराले ! ' व्यालानां लीला व्याललीला, तया कराला, व्याललीलाकराला, तस्याः सम्बोधनं व्याललीलाकराले ! - काकोदर क्रीडारौद्रे ! इत्यर्थः । पुनरपि कथम्भूते ? विद्युद्दण्डप्रचण्डप्रहरणसहिते !' विद्युतो दण्डो विद्युद्दण्डः, तद्वत् प्रचण्डं विद्युद्दण्डप्रचण्डम्, विद्युदण्डप्रचण्डं च तत् प्रहरणं च विद्युद्दण्डप्रचण्डप्रहरणं तेन सहिता विद्युद्दण्डप्रचण्ड प्रहरणसहिता, तस्याः सम्बोधनं क्रियते विद्युद्दण्डप्रचण्डप्रहरणसहिते ! - सौदामिनोलकुटसमर्थायुधयुक्ते ! इत्यर्थः । तया ' तर्जयन्ती ' ताडयन्ती । कम् ? ' दैत्येन्द्रम् ' दानवेन्द्रम्, कैः ? ' सद्भुजैः शोभनदोर्दण्डैः । पुनरपि कीदृशे ? क्रूरर्दंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे !' क्रूरा चासौ दंष्ट्रा च क्रूरदंष्ट्रा तस्याः करकटः शब्दविशेषः क्रूरदंष्ट्रा कटकटः क्रूरदंष्ट्राकटकटेन घटितः क्रूर दंष्ट्रा कटकटघटितः, स्पष्टश्चासौ भीमश्च स्पष्टभीभः क्रूरदंष्ट्राकटकटघटितेन स्पष्टभीमो हासो यस्याः सा क्रूरदंष्ट्राकटकटघटितस्पष्टभीमादृहासा, तस्याः सम्बोधनं क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे ! । मायाशब्देन
"
"
Jain Education International
"
,
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662