SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ८० जैनस्तोत्रसन्दोहे | [ पार्श्वदेवगण • सिद्धिर्भवति । करजापलक्षेण निरन्तरं ध्यायमानेन आरोग्यबुद्धिलाभः । सर्वकार्याणां सिद्धिर्भवति । सुगमम् ॥ इदानीं प्रथमवृत्तानन्तरं मालामन्त्रमनेकप्रकारं सप्रपञ्चमाहभित्त्वा पातालमूलं चलचलचलिते ! व्याललीलाकराले ! विद्युद्दण्डप्रचण्डप्रहरणसहिते ! सद्द्भुजैस्तर्जयन्ती । दैत्येन्द्रं क्रूरदंष्ट्राकटकटघटितस्पष्टभीमा हासे ! मायाजीमूतमालाकुहरितगमने ! रक्ष मां देवि ! पद्मे ! ॥२॥ ८ व्याल हे देवि ! पद्मावति ! शासनदेवि ! रक्ष पालय, कम् ? 'माम् ' स्तुतिकर्तारम् कीदृशे देवि ! ' चलचलचलिते ! ' चलचलचलितं यस्याः सा चलचलचलिता, तस्याः सम्वोधनं चलचलचलिते ! चञ्चलगमने ! इत्यर्थः किं कृत्वा ? ' भित्त्वा ' विदारयित्वा किम् ? ' पातालमूलम् ' पातालस्य मूलं पातालमूलम् - असुरभवनमूलमित्यर्थः । पुनरपि कीदृशे ? लीलाकराले ! ' व्यालानां लीला व्याललीला, तया कराला, व्याललीलाकराला, तस्याः सम्बोधनं व्याललीलाकराले ! - काकोदर क्रीडारौद्रे ! इत्यर्थः । पुनरपि कथम्भूते ? विद्युद्दण्डप्रचण्डप्रहरणसहिते !' विद्युतो दण्डो विद्युद्दण्डः, तद्वत् प्रचण्डं विद्युद्दण्डप्रचण्डम्, विद्युदण्डप्रचण्डं च तत् प्रहरणं च विद्युद्दण्डप्रचण्डप्रहरणं तेन सहिता विद्युद्दण्डप्रचण्ड प्रहरणसहिता, तस्याः सम्बोधनं क्रियते विद्युद्दण्डप्रचण्डप्रहरणसहिते ! - सौदामिनोलकुटसमर्थायुधयुक्ते ! इत्यर्थः । तया ' तर्जयन्ती ' ताडयन्ती । कम् ? ' दैत्येन्द्रम् ' दानवेन्द्रम्, कैः ? ' सद्भुजैः शोभनदोर्दण्डैः । पुनरपि कीदृशे ? क्रूरर्दंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे !' क्रूरा चासौ दंष्ट्रा च क्रूरदंष्ट्रा तस्याः करकटः शब्दविशेषः क्रूरदंष्ट्रा कटकटः क्रूरदंष्ट्राकटकटेन घटितः क्रूर दंष्ट्रा कटकटघटितः, स्पष्टश्चासौ भीमश्च स्पष्टभीभः क्रूरदंष्ट्राकटकटघटितेन स्पष्टभीमो हासो यस्याः सा क्रूरदंष्ट्राकटकटघटितस्पष्टभीमादृहासा, तस्याः सम्बोधनं क्रूरदंष्ट्राकटकटघटितस्पष्टभीमाट्टहासे ! । मायाशब्देन " " Jain Education International " , For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy